SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः] अपि च सततं सन्निधिवासाद् गुणिनामपि गच्छतीह गुणगरिमा । भागीरथीजलाय स्पृहयति सर्वोऽपि दूरस्थः ॥ १९ ॥ (आय) ज्ञानबोध: - १३णं सा विजाभट्ठा तिरिच्छिभूया तवस्सिणी असहाया तत्थ कहं कालं गमिस्सदि ? | - आज्ञासिद्धः - अयि ऋजुहृदय । तदर्थे पुराऽपि व्यवसितमेवास्माभिः । विद्यापहारान्तरदुष्टकालव्यतिक्रमेण प्रियसङ्गमाय । चक्राङ्गनारूपधरा सखीत्वे माहेश्वरी तत्र नियोजिताऽस्ति ॥ २० ॥ (उपजाति) ज्ञानबोध:- १४. 'नं तहा तस्सि तु अवायरक्खणे तईये समं संगमाय संपदं जदिस्सध | आज्ञासिद्धः - ननु तत्र तमानेतुं नियुक्तो मतिमसृणानुगतस्तत्त्वप्रपञ्चन एव स सर्व विधास्यति, योऽस्मान् प्रथमान्तेवासिनं स्मरयति मतिविभवम् । ज्ञानबोधः- १५ गुरुयणा ! कीदिसो सो मइविहवो ! । आज्ञासिद्धः - शृणु, गगनतलमलङ्घ्यं यो विलङ्घ्य क्षणेन, द्विरसनवसति तां लीलयैव प्रविश्य । दिशति परमसिद्धीर्मन्त्रविस्फूर्जितैस्तैः, [चन्द्रलेखाविजयप्रकरणम् क्वचिदपि न तदास्ते वस्त्वसाध्यं यदस्य ॥ २१ ॥ (मालिनी) ज्ञानबोध: - १६ भट्टा अवणेह मे संसयं - तिहुयणपच्चक्खपहावा देवी इच्छामित्तेण आराहयजणमणोरहपूरणसमत्था कहं तुम्हे आदिसदि ? । आज्ञासिद्ध: - वत्स एवंप्रभावैव देवी । परम् तस्मिन् पुराभवभवार्जितसर्वविद्ये, Jain Education International साहायकार्थमदिशत् स मयि प्रसादः । १३. ननु सा विद्याभ्रष्टा तिरश्चीभूता तपस्विनी, असहाया, तत्र कथं कालं गमयिष्यति ? १४. ननु तथा तस्मिंस्तु अपायरक्षणे तकया समं सङ्गमाय साम्प्रतं यतिष्यध्वे । १५. हे गुरुजन ! कीदृशः स मतिविभवः ? १६. हे भर्तः ! अपनयत मम संशयम् । त्रिभुवन- प्रख्यातप्रभावा देवी इच्छामात्रेण आराधकजनमनोरथपूरणसमर्था कथं युष्मान् आदिशति ? १० For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy