________________
संस्कृतटीका-भाषाटीकासमतः। (९) रवेर्मेषतुले प्रोक्ते चन्द्रस्य वृषवृश्चिकौ ॥ भौमस्य मृगकको च कन्यामीनो बुधस्य च १३
सं० टी०-अथोच्चनीचद्वारमाह-रवेःसूर्यस्य मेष उच्चं, तुला नीचम् । कुतः ? सप्तमत्वात् । ' उच्चान्नीचं सप्तममर्कादीनाम् । इत्याद्युक्तत्वाच्च । एवं सर्वत्र ज्ञेयम् । तथा चन्द्रस्य वृष उच्चं, वृश्चिकः नीचम् । तथा भौमस्य मकर उच्चं, कों नीचम् । तथा बुधस्य कन्योचं, भीनो नीचम् ॥ १३ ॥ ___ अर्थ-अब द्वितीय द्वारमें उच्च और नीच एकत्र ही क्रमसे कहते हैंसूर्यका मेष और तुला क्रमसे उच्च और नीचे है अर्थात् सूर्यका उच्च मेष राशि है और नीच तुला है। इसी प्रकारसे चन्द्रमाका उच्च वृष है और नीच वृश्चिक है, मंगलका उच्च मकर है और नीच कर्क है, बुधका उच्च कन्या राशि है और नीच मीन है ॥ १३ ॥
जीवस्य कर्कमकरौ मीनकन्ये सितस्य च ॥ तुलामेषौ च मंदस्य उच्चनीचे उदाहृते ॥१४॥
सं० टी०-बृहस्पतेः कर्कः उच्चं, मकरो नीचम् । तथा शुक्रस्य मीन उच्चं, कन्या नीचम् । तथा मंदस्य शने: तुला उच्चं, मेषो नीचम् । अथ प्रस्तावात्परमोच्चादि शास्त्रान्तराल्लिख्यते-यथा वेर्मेषतुलेति । प्रागुक्तेषु उच्चभवनेषु त्रिशांशापेक्षया "दश १० शिख्य३ष्टाविंशति २८ तिथी १५ न्द्रिय५त्रिनवक२७ विशेषु २० ।" इत्याद्यर्थाऽपराधसंज्ञायां ज्ञेयम् । तथा हि
"Aho Shrut Gyanam"