Book Title: Bharateshwar Bahubali Vrutti Part_1
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 333
________________ यिनम् ॥१॥ एवं देवीपार्श्वे यावत् पूर्व भवं श्रुत्वा शस्त्रशास्त्रादिकलाकौशल्यादिविद्या गृहीता मया, तावदहमात्मानं नदीपुलिनगामिनमपश्यम् । ततोऽहं प्रमोदमेदुरस्वान्तस्त्वां नन्तुं त्वरितमत्रागमम् । एतत्पुत्रोक्तं श्रुत्वा पुत्राय यौवराज्यपदवी ददौ । कुमारोऽपि श्रियं प्राप्य, सहकार इवाद्भुताम् । गमयामासिवान्काम-मर्थिसाथै कृतार्थताम् ॥ १॥ ततः प्रभृति ॥ युगबाहुः मातापित्रोर्भक्तिं कुवाणो जिनधर्मकरणतत्परस्तपः करोति पञ्चम्यादिपर्वसु । अर्द्धरात्रावन्यदा स्वावासपर्यन्ते all करुणध्वनि शुश्राव युगबाहुः । जिज्ञासुः प्रभवं तस्य, कुमारः करुणामयः । कृपाणपाणिर्निर्गत्य, गतवान् ध्वनिसंमुखम् । N॥२॥ ततोऽन्तवणं गतो युगबाहुरेका स्त्रियं रुदन्ती म्लानीभवन्मुखाम्भोजां लावण्यपुण्यखानिमपश्यत् । तदा नरेण केनचित् संभोगार्थ प्रार्थ्यमानां रुदन्ती वीक्ष्य कुमारो वृक्षान्तरे छन्नं तस्थौ । तदा स पुमास्तां स्त्रियं प्रत्येवमवदत् ।। मयि प्रपन्नदास्येऽपि, दास्यते यदि नोत्तरं । तदसिदृश्यतामेष, स्मर्यतामिष्टदेवताम् ॥ १॥ ऊचे कन्या तदा । | मूढ ! स्मरामि कमिवापरम् । युगबाहुः कुमारोऽस्ति, हृदि मेऽद्वैतदैवतम् ॥ २॥ यद्यत्र मन्दभाग्याया, नैव देवेन | दर्शितः । भवान्तरेऽपि मे भूयात् , प्राणनाथस्तथापि सः॥ ३ ॥ हृष्टः स्वनामश्रवणातू कुमारो दध्यौ-इयं मम | नाम कथं वेत्ति । कुमारः खङ्गमाकृष्य, ततः क्रोधादधावत । स्त्रीघातपातकिन् । क्रूर ! करे यासीति तर्जयन् ॥१॥ Jain Educata For Private & Personel Use Only Iww.jainelibrary.org

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376