Book Title: Bharateshwar Bahubali Vrutti Part_1
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 349
________________ तेन स्वजनमध्येऽहं लज्जामि । यदि ममाम्बरयुगं कुण्डिकां छत्रिकोपानही यज्ञोपवीतं अनुजानीत यूयं तदाऽहं दीक्षा गृहीष्यामि । गुरुभिरुक्तं-एवं भवतु । ततो विप्रवेषयुतः प्रव्रज्यां जग्राह सोमदेवः । ततो गुरुणाऽनुज्ञातो धौतिकाम्बरादि सर्व सोमदेवो दधाति स्म । अन्यदा गुरवश्चैत्ये देवान्नन्तुं गताः। तत्र पूर्वशिक्षिताः शिशवः सोमदेवं विना । सर्वान् साधून ववन्दिरे । तदा एकेन शिशुनोक्तं-एष साधुः कथं न वन्द्यते । तदाऽपरैरुक्तं-वयं साधूनेव वन्दा* महे । एष साधुर्न गृहस्थवेषधारणात् । ततः सोमदेव ऋजुस्वभावः साधुस्तान् प्रति प्राह-यूयमेतान् साधून वन्दछ । मां न नमत । ततः किं नाहं साधुः । तैरुक्तं भवान् कथं साधुर्भवतु । वस्त्रयुगं गृहस्थतुल्यं वर्तते । ततस्तेन सोम-18 || देवेनै वस्त्रं स्थापितम् । एवं कुण्डिकोपानहछत्रयज्ञोपवीतानि त्याजितः सोमदेवः कटिपट्टकमेकं न मुञ्चति बहुशो बालकपाजिल्पितोऽपि सोमदेवः । इतस्तत्र साधुस्तीव्रतपस्कारी भक्तप्रत्याख्यानं चकार । तदाऽनेके जनाः श्राद्धास्तस्य साधोरनशनमहोत्सवं चक्रुः तदा साधुभिश्वाराधना तस्य साधोः सम्यक् कारिता । जिनेन्द्रध्यान मृत्वा साधः स्वर्ग जगाम । ताहे तस्सनिमित्तंकडिपट्टवोसिरणट्टाए आयरिआ भणति-य एतं मृतःसाधं वहते तस्यानंतं पुण्यं मुक्तिगमनयोग्यं भवति । तथा पृथक् पृथक् सर्वे साधवो जल्पन्ति । अहमेनं साधु वहामि । तदा JainEducation For Private Personel Use Only Glliw.jainelibrary.org

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376