________________
यिनम् ॥१॥ एवं देवीपार्श्वे यावत् पूर्व भवं श्रुत्वा शस्त्रशास्त्रादिकलाकौशल्यादिविद्या गृहीता मया, तावदहमात्मानं नदीपुलिनगामिनमपश्यम् । ततोऽहं प्रमोदमेदुरस्वान्तस्त्वां नन्तुं त्वरितमत्रागमम् । एतत्पुत्रोक्तं श्रुत्वा पुत्राय यौवराज्यपदवी ददौ । कुमारोऽपि श्रियं प्राप्य, सहकार इवाद्भुताम् । गमयामासिवान्काम-मर्थिसाथै कृतार्थताम् ॥ १॥ ततः प्रभृति ॥ युगबाहुः मातापित्रोर्भक्तिं कुवाणो जिनधर्मकरणतत्परस्तपः करोति पञ्चम्यादिपर्वसु । अर्द्धरात्रावन्यदा स्वावासपर्यन्ते all
करुणध्वनि शुश्राव युगबाहुः । जिज्ञासुः प्रभवं तस्य, कुमारः करुणामयः । कृपाणपाणिर्निर्गत्य, गतवान् ध्वनिसंमुखम् । N॥२॥ ततोऽन्तवणं गतो युगबाहुरेका स्त्रियं रुदन्ती म्लानीभवन्मुखाम्भोजां लावण्यपुण्यखानिमपश्यत् । तदा नरेण
केनचित् संभोगार्थ प्रार्थ्यमानां रुदन्ती वीक्ष्य कुमारो वृक्षान्तरे छन्नं तस्थौ । तदा स पुमास्तां स्त्रियं प्रत्येवमवदत् ।। मयि प्रपन्नदास्येऽपि, दास्यते यदि नोत्तरं । तदसिदृश्यतामेष, स्मर्यतामिष्टदेवताम् ॥ १॥ ऊचे कन्या तदा । | मूढ ! स्मरामि कमिवापरम् । युगबाहुः कुमारोऽस्ति, हृदि मेऽद्वैतदैवतम् ॥ २॥ यद्यत्र मन्दभाग्याया, नैव देवेन | दर्शितः । भवान्तरेऽपि मे भूयात् , प्राणनाथस्तथापि सः॥ ३ ॥ हृष्टः स्वनामश्रवणातू कुमारो दध्यौ-इयं मम | नाम कथं वेत्ति । कुमारः खङ्गमाकृष्य, ततः क्रोधादधावत । स्त्रीघातपातकिन् । क्रूर ! करे यासीति तर्जयन् ॥१॥
Jain Educata
For Private & Personel Use Only
Iww.jainelibrary.org