SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते- श्वरवृत्तिः॥ श्रीयुगबाहु चरित्रम्। अथासौ पुरुषः प्राह, भद्र ! द्रुतमितःसर । रजकस्यायुषि क्षीणे, खरवन्म्रियसे कथम् ॥१॥ कुमारोऽवग्-प्राणैः सत्वरगत्वरै- रोभः स्वार्थः परार्थश्च पुम्भिः कर्तव्य एव । किं चाऽतिक्रूरमेतत्ते, निर्मातुं कर्म नोचितम् । लोकद्वयविरुद्धं हि, विदधाति सुधीः कुतः॥१॥ नरोऽवग-दुष्ट ! किं ममाप्युपदेशं ददासि ? । इत्युक्त्वा स नरो युगबाहुं हन्तुमुत्तस्थौ । खड्गाखङ्गि युद्ध चिरं द्वाभ्यां कृतम्। अथ कुमारमजय्यसारविक्रमं हन्तुं दन्दशकास्त्रं साक्षेपमक्षिपन्नरः । ततः कुमारः शारदादत्तं मन्त्रं नागपाशनाशाय सस्मार । तयोरस्त्रमस्त्रेण निवारयतोर्मिथश्चिरं युद्धमभूत् । क्रमाकुमारेण स्तम्भनीविद्यया स नरः स्तम्भीकृतः। तदा कुमाररूपमालोक्य सा कन्या विस्मयोत्ताना मनसैवं व्यचिन्तयत् । स एव यदि राजेन्द्र-नन्दनोऽयमिहागमत् । उपचके ममैतेन, नष्टो विद्याधराधमः॥१॥ ततः स नरस्तेन बन्धनान्मुक्तः सन् कुमारस्य पादयोः पपात । तदा कोऽप्याविर्बभव विद्याधरो विमानादुत्तीर्य भासुरोदारनेपथ्यधरः । स विद्याधरः कुमारस्य पुरो भूत्वा जगौ-भो युगबाहो ! त्वं सुस्थितः सन् शृणु मे वचः । तथाहिभरतक्षेत्रसीमान्त-वैताट्योत्तरदिग्गतम् । अस्त्यपास्तामरपुरं, पुरं गगनवल्लभम् ॥१॥ तत्र मणि खग आसीत् । तस्य प्रिया मदनावली । तयोः पुत्री जलदेवतया दत्ताऽनङ्गसुन्दरी जज्ञे । क्रमाद्यौवनं प्राप्ता । चतः Jain Educator For Private & Personel Use Only W w.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy