SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ | षष्ठिकलाकुशलाऽनङसुन्दरी जाता। साऽनङ्गसुन्दरीति प्रतिज्ञा चके । यः कश्चित् मत्कृतस्य प्रश्नचतुष्टयस्य प्रत्युत्तरं दास्यति स एव भावी मम भर्ता खेचरो भूचरो वा । ततस्तयाऽनङ्गसुन्दर्या कृतां प्रतिज्ञां श्रुत्वाऽनेके विद्याधरा । नृपास्तत्राययुः । गर्वतः सर्वतोऽभ्येत्य, प्रश्नोत्तरबहिर्मुखाः । वृथाभवन्नपुण्याना-मिव लक्ष्मीमनोरथाः॥१॥ तत्रार्तेन भूभा, पृष्टो नैमित्तिकोत्तमः। युगबाहुं शशंसास्या, भाविनं भूचरं वरम् ॥ २ ॥ ततः प्रभृति सा तत्र, लक्ष्मीरिव । मुरडिषि । बद्धभावाऽभवत्कामं, गुणैः श्रुतिपथागतैः ॥ ३ ॥ पूर्वेयुः प्रातरेवास्य, सभासीनस्य भूभुजः। अगात्पवनवेगाख्यः, खगः शङ्खपुरेश्वरः ॥ ४ ॥ पुत्रीमुद्दोढुकामोऽकृतप्रश्ननिर्णयो विलक्षो जहारैनामनङ्गसुन्दरीम् । ततो नेके खेचराः स्वस्वस्थाने ययुः । अस्यास्तु मातुलः सोऽह-मिहायातोऽस्मि दैवतः। अयं पवनवेगाख्यो, जामेयो|ऽस्ति ममाप्यसौ ॥१॥ इतोऽकस्मात्तत्र मणिचूडोऽपि सपरिवारः समागात् । मणिचूडो जगौ-भो महाबाहो ! युग- - बाहो ! ममेयं सुता मम जीवितमस्ति । पूर्व नैमित्तिकेन मया पृष्टेन त्वमस्याः पतिः कथितोऽसि । सांप्रतं तु ज्ञापितोऽसि विद्याधरेशैः । तत्त्वां प्रतिप्रदानेऽस्याः का नाम प्रभुता मम । किन्तु प्रतिज्ञानिर्वाहोऽ-प्यस्यास्त्वय्येव तिष्ठति ॥१॥ निष्कारणोपकारः, क नाम स्युभवादृशः । दृष्टः किं विष्टपोज्जीवी, यदिवा न दिवाकरः ॥ २॥ एवं Join Educat i onal For Private & Personal Use Only Mw.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy