SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वर वृत्तिः ॥ ॥ १६७ ॥ | तस्मिन् खगे वदति ज्ञात्वा स्वपुत्रस्थितिवृत्तान्तं विक्रमबाहुः समागात् । सङ्गमस्तत्र चान्योऽन्य - मुभयोरपि भूभुजोः । | प्रशस्यः समभूद्गङ्गा - कालिन्दीस्रोत सोखि ॥ १ ॥ ततः पवनवेगोऽपि युगबाहुं प्रणम्याह - मया स्त्रीहरणात्पापं कृतं तत् | क्षमस्व । ततो युगबाहुस्तं स्वसेवकं चक्रे । मणिचूडः सर्वान् खगान् स्त्रपुरेऽनैषीत् । ततः पुरीपरिसरे रम्ये संसूत्र्य मण्डपं | कारयामास मञ्चान्मञ्चान् । ततः सर्वेषु भूचरेषु खेचरेषु मञ्चोन्मञ्चेषु उपविष्टेषु विक्रमबाहुमणिचूडभूपावुपविष्टौ । | युगबाहुरपि तत्रोपविष्टः । ततोऽनङ्गसुन्दरी याप्ययानारूढा सारालङ्कारवस्त्रभूषितगात्रा तत्रागत्य पितुश्चरणौ प्रणम्य | निषसाद पितुरग्रतः । ततो राजाऽवग्- इयं मम पुत्री प्रश्नचतुष्टयं स्वकृतं जल्पिष्यति । तस्य यः प्रत्युत्तरं दास्यति स | परिणेष्यति मत्पुत्रीम् । ततस्तयोक्तं कः सकलः १, कः सद्बुद्धिः २, कः शुभगः ३ को विश्वजयी ४, एतस्य प्रश्नचतुष्टयस्य प्रत्युत्तरो न केनाऽप्यपुरि । ततो युगबाहुवर्णपाञ्चालिकापार्श्वदेवं पूरयामास । कः सकलः ? सुकृतरुचिः १, कः सद्बुद्धिः ? | विधेयकरुणापरः २, कः शुभगः ? शुभवादी ३ को विश्वजयी ? जितक्रोधः ४ ॥ १ ॥ एवं समस्यायां पूरितायां जयजयारावे | जायमाने कुमारी युगबाहुकण्ठे वरमालां चिक्षेप । शुभे मुहूर्ते विशेषतो राजा तयोः पाणिग्रहणं कारयामास । ततो मणिचूडो विक्रमबाहुप्रभृतीन् भूवन् सहस्त्रभूषणादिना मानयामास । ततो विक्रमबाहुः पुत्रयुतः स्वपुरमाययैौ । Jain Education International For Private & Personal Use Only श्रीयुगबाहुकथानकम् । ॥१६७॥ www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy