SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ नृपः पवनवेगोऽपि स्वपुरं ययौ । क्रमादन्येधुर्मन्त्रीश्वरानापृच्छय जिनेन्द्रस्य पूजां कारयित्वा बन्दीजनमोक्षणं च कृत्वा स्वपुत्रं युगबाहुं स्वपदेऽभिषिच्य संयमश्रीगुरूपान्ते संयम जग्राह । युगबाहुनृपस्तु पितृदत्तविद्ययाऽनेकान् । परिवारान् वशीचकार । मणिचूडविद्याधरेणापि दीक्षां जिघृक्षुणा युगबाहुर्विद्याधरनायकश्चके । अन्येारनङ्गसुन्दरी ।। शुभेऽहनि सत्स्वप्नसचितं पुत्रमसत । जन्मोत्सवं कृत्वा सूनो रत्नबाहुरिति नाम ददौ राजा । वर्द्धमानः क्रमाद्धर्मFalकर्मशास्त्राणि पाठितः पित्रा । अन्येयुः श्रीविक्रमबाहुमुनिर्विहरमाणः प्राप्ताचार्यपदस्तत्राययौ । ततः श्रीयुगबाहुर्धर्म | श्रोतुं गतस्तत्र । गुरुरित्याह-धर्मों विशिष्टः पितृमातृपत्नी-सुहृत्सुतस्वामिसहोदरेभ्यः । सनातनोऽयं सह याति ।। मृत्यौ, दुःखापहोऽमी पुनरीदृशा न ॥ १॥ धर्मों सदा मङ्गलमङ्गभाजां, धर्मो जनन्युइलिताखिलार्तिः। धर्मः पिता पूरितचिन्तितार्थो, धर्मः सुहृवर्तितनित्यहर्षः ॥ २॥ विद्युहिलासस्थितिजीवितव्यं, सन्ध्येव लक्ष्मीः क्षणदृष्टनष्टा । तरङ्गभङ्गप्रतिमं प्रभुत्वं, धर्मस्ततः शाश्वत एव सेव्यः ॥ ३ ॥ इत्यादि धर्मोपदेशं श्रुत्वा युगबाहुः स्वपुत्रं । रत्नबाहुं स्वपदेऽभिषिच्य श्रीविक्रमबाहुगुरुपार्श्वे दीक्षा ललौ । तदा गुरुभिरुक्तं-चारित्रं शुद्ध पालनीयं, यतश्चारित्रात् । स्वर्गापवर्गादिसुखं भवति । यतः-एके सिंहभूय चारित्रं गृह्णन्ति शगालीभय पालयन्ति १, एके शृगालीभूय Jain Educat For Private & Personel Use Only Miww.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy