SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ श्वर वृत्तिः॥ ॥१६८॥ चारित्रं गृह्णन्ति सिंहीभूय पालयन्ति २, एके श्रृगालीभय चारित्रं गृह्णन्ति शृगालीभूय पालयन्ति ३, एके सिंहीभूय 1 श्रीयुगबाहुचारित्रं गृह्णन्ति सिंहीभूय पालयन्ति ४, त्वया चारित्रं चतुर्थभङ्गे पालनीयम् । श्रुत्वेति गुरुवचो युगबाहुः श्रीआयषष्ठाष्टमपक्षक्षपणमासक्षपणादितपः कुर्वाणो युगबाहुः कर्मविच्छेदं चकार । युगबाहुना तपः कुर्वता सर्वकर्मक्षयात|| || महागिरि श्रीआर्यकेवलज्ञानं प्रपेदे । ततोऽनेकभव्यजीवान् चिरं प्रबोध्य युगबाहुर्मुक्तिं गतः । ॥ इति युगबाहुकथा समाप्ता ॥ ३५ ॥ हस्ति सूरीश्वरयो अज्जगिरि अज्जरक्खिअ, अज्जसुहत्थी उदायणो मणगो । कालयसूरी संबो, पज्जुन्नो मूलदेवो य ॥५॥ चरित्रम्। लभन्ते भवीनः सौख्यं, कुर्वाणा धर्ममार्हतम् । आर्यमहागिरिसुह-स्तिनाविवावनीतले ॥१॥ तथाहि---स्थूलभद्रमुनीन्द्रस्य शिष्यौ आर्यमहागिरिसुहस्तिनावभूताम्। चरणाविव धर्मस्य, ज्ञानस्य नयने इव ।। तावभूषयतां साङ्ग-दशपूर्वधरौ धराम् ॥ १॥ आर्यमहागिरिरनेकशः शिष्यान् वाचनादानैर्निष्पादयामास । निजंगच्छभारं सुहस्तिनि न्यस्य । एकोऽभून्मनसा काम, जिनकल्पाहवृत्तिधीः । व्यवच्छेदाजिनकल्पस्य, गच्छस्थोऽपि तदर्हकृत् । महागिरिर्महीपीठे, विजहार महातपाः ॥ १॥ तौ सूरी पाटलीपुरमध्येऽन्येधुर्ययतुः । तत्र वसुभूतिर्महेभ्यो बोधितोऽस्ति श्रीसुहस्तिभिः जीवाजीवादितत्त्वज्ञोऽभूत् । क्रमाहसुभूतिः सुश्रावको निजस्वजनान् बोधयितुं । ॥१६८॥ Jain Education For Private Personel Use Only Poww.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy