SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ २९ Jain Education th प्रवृतः । तेन ते बोधयितुं न शेकिरे । प्रतिबोधयितुं बन्धुवर्ग मोहग्रहग्रस्तं तद्वानिव वसुभूतिः स्वयं स्वगुरुं तत्र निन्ये । तत्र व्याख्या भवतापापहारिणी श्रीसुहस्तिना समारब्धा । तत्र भिक्षार्थमार्यमहागिरिराययौ । तत्क्षणमेवोत्थाय श्री सुहस्तिसूरिभक्तिपूर्व श्री आर्यमहागिरिं ववन्दे । श्रेष्ठी जगाद -- भगवन् सुहस्तिसूरे! तव सर्वगुरोरपि किमेष गुरुः १ । श्रीसुहस्ती प्राह-- गुरवोऽमी मम तपश्चरन्तोऽत्र त्यागार्ह भक्तं पानं च गृह्णते कर्मरोगच्छिदे एवंविधं तपः कुर्वते - स्मामी । एवं विनयं तस्य सूरेर्वीक्ष्य धर्मोपदेशमाकर्ण्य च तत्कुटुम्बं प्रबुद्धम् । ततः सुहस्ती तान् बन्धून् प्रतिबोध्य स्वाश्रयं ययौ । इतो वसुभूतिरभाषिष्ट, स्वजनान् प्रति - ईदृग् मुनीन्द्रो मोक्षमार्गदायी यदाऽऽत्मीयगृहे समायाति, तदाऽस्मै मुनीशाय त्यज्यमानं भक्तं पानं च देयम् । तद्दानं बहुफलं मुक्तिदायिनं भविष्यति । अथ तत्रैव भिक्षार्थं प्राप्तोऽन्यदा श्रीमहागिरिस्तत्रागात् । यदा ते श्राद्धास्त्यज्यमानभक्तपानप्रतिलाभनायोद्यता अभूवन् । तदा ज्ञानादशुद्धमाहारं ज्ञात्वा महामुनिरुपाश्रये गत्वा सुहस्तिसूरिं प्रति जगाद - त्वदुपदेशात्ते श्राद्धा अशुद्धां भिक्षां मह्यं दातुमसज्जयन् । नेदं पुनः करिष्याम्यशुद्ध माहारमित्युक्त्वा आर्यसुहस्ती क्षमयामास विनीतात्मा । जीवन्तस्वामिप्रतिमारथयात्रां निरीक्षितुं आर्यमहागिरिसुहस्तिसूरी गच्छतः स्मावन्तीम् । तदा तत्र नृपः संप्रतिर्जितानेकवैरिचक्र ational For Private & Personal Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy