________________
॥ श्रीभरतेश्वर वृत्तिः ॥ ॥ १६९ ॥
आसीत् । उत्सवादथ श्रीजीवन्तस्वामिनो निर्ययौ रथः । संसारसागरोत्तारकारणं नीयमानः स रथोऽन्वीयमानः * सुहस्तिसूरिणा श्रीसङ्गेन च पुर्यो स्थाने स्थाने पर्यटतिस्म । इतो रथो भ्राम्यमाणो राजद्वारमागात् । तदा राजा संप्रतिर्गवाक्षस्थः श्रीसुहस्तिनं सूरिं गच्छन्तमवलोक्य दध्याविति - - किमेष यतीशः शान्तात्मा पुण्यमूर्तिर्मया पूर्वस्मिन् भवे वा कुत्रचिद् दृष्टोऽसौ, येनास्मिन् दृष्टेऽतीव मोदो जायमानोऽस्ति । " यस्मिन् दृष्टे भवेन्मोदो, द्वेषश्च प्रलयं व्रजेत् । स विज्ञेयो मनुष्येण, बान्धवः पूर्वजन्मनः ॥ १ ॥ " इत्येवं पुनर्विमृशन् प्राप्तमूच्छ नृदेवः | पपातावनीतले । तदा मन्त्रिभिरनेकैर्वातप्रक्षेपादिभिरुपचारैः सचेतनीकृतः । सचेतनो भूत्वा जातिस्मृतिं प्राप । उत्थाय तत्क्षणान्नृदेवो गुरुं त्रिः प्रदक्षिणीकृत्य श्रीसुहस्तिनं पूर्वभवसम्बंधिनं स्वगुरुं जानन् भूतलमिलन्मौलिर्ननामोच्चैः । ततो हस्तौ योजयित्वा राजा सानंद उवाच - भगवन् ! केन फलेन जिनधर्मः फलति । आख्यद्गुरुस्त रोस्तस्य, सुपक्कममृतं फलम् । अपक्कफलभेदास्तु, कल्पाश्चानुत्तराश्च ते ॥ १ ॥ पुनः पृथ्वीशः पप्रछ- अव्यक्तस्य सामायिकस्य किं फलं भवति ? । गुरुराह - सामायिकस्य कर्तुर्यत्पुण्यं भवति, तस्य सङ्ख्यां कर्तुं शक्यते न । “सामाईअंमि कए, समणो इव सावओ हवइ जम्हा । एएण कारणेणं, बहुसो सामाइअं कुज्जा ॥ १ ॥ " ततोऽव्यक्तसामायिकाद्राज्यं
Jain Education International
For Private & Personal Use Only
e
श्री आर्यमहागिरि
श्री आर्य
सुहस्ति मुनिपुरंदर कथानकम् ।
॥ १६९ ॥
www.jainelibrary.org