________________
प्राप्यते ततो राज्यफलम् । एतत् श्रुत्वा राजा जगौ-भगवन् ! अहं त्वयोपलक्ष्यो न वा । उपयोगेन विज्ञाय गुरुगिरमाह-ज्ञानोपयोगात् विहरन्तो वयं श्रीमहागिरिसरिभिः समं सगच्छाः कौशाम्ब्यामागच्छाम । साधुबाहल्यात वसतेः संकीर्णत्वात् पथक स्थितौ आवां तदाऽतिदर्भिक्षे प्रवर्तमाने श्राद्धा महर्डिका अस्मभ्यं बह अन्नं विहारयन्तिस्म। कस्यापि श्रेष्ठिनो गृहे साधवोऽस्मदीया भिक्षायै ययुः । तदा एको रङ्कस्तेषां पृष्टिस्थो धान्यं बहु विहार्यमाणं वीक्ष्य । वर्त्मनि जगौ-अहं दीनो बुभुक्षितोऽस्मि, म्रियेऽहं तेन भोज्यं किंचिद्दीयताम् । साधवोऽस्मदीया जगुः-गुरवो । जानन्ति वयं तु तदधीनाः, स्वयं दातुं किमपि नेश्वराः । ततो रङ्को गुरुपार्श्वे गत्वा भोजनमयाचत । तदा गुरुभिरतिशयज्ञानवद्भिस्तस्याग्रेतनं भवं दृष्ट्वा प्रोक्तं-व्रतं चेहजसे तदा लभसे भक्तमस्मत्पार्धात् । अचिन्तयदयं रङ्कश्चिरं कष्टं सहाम्यहम् । तद्वरं व्रतजं कष्टं, यथेष्टं यत्र भुज्यते ॥ १॥ रङ्कः प्राह-मम संयमं ददत यूयम् । ततो
गुरुभिः संयमश्रीस्तस्मै विश्राणिता । अल्पमायुर्मत्वा स्वन्नपानदानेन भोजयित्वा भाववृद्धये साध्वीपार्श्वे साधुयुतो है। बरसाधुः प्रेषितः। साध्वीभिरुत्थाय महेभ्यप्रियापुत्रीयताभिर्वन्दितो यतिः । तदा ध्यातं तेन-अहो धर्मस्य साम्राज्यं ।।
मया यत् कदाचिद् दृष्टं नान्नं तद्भुक्तं. एवंविधाः साध्व्यादयो मामद्य दीक्षितं वन्दन्ते । वर्द्धमानभावो रङ्कः पश्चात् ।
For Private Personal Use Only
Jain Education
swww.jainelibrary.org