SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वर वृत्तिः ॥ ॥ १७० ॥ Jain Education | शालायां समागतोऽकस्माद्बलिष्ठाहाराजीर्णत्वात् ग्लानीभूतो रात्रौ तस्यां गुरुभिर्निर्यामितो मृतः । स रङ्कसाघुरव्य|क्तसामायिको विपद्य राजंस्त्वं मृणालभपकुणालप्रियाङ्गजोऽभूः, वयं ते रङ्कस्य दीक्षादातारः स्मः । पुनः भूपोऽवग्-भगवन्नेष | राज्यसम्भवो भवत्प्रसादः । भगवन् ! यदि तदा युष्माकं दर्शनं नाभवन्मम, तदा मम वेदृग् संयमः । पूर्वजन्मनि यूयं गुरवो जाताः । अस्मिन्नपि भवे भवन्तो गुरवो भवन्तु । श्रीसुहस्तिसूरिराह - राजन्नाजन्मस्वर्गापवर्गसुखदं प्रवरं जिनधर्म्यं भज । येन धर्मेण संसारान्निस्तारो भवति । ततो राजा बहुपरिवारयुक् श्रीगुरुपार्श्वे धर्मे श्रोतुं गतः । ततो गुरुराह - " त्रिवर्गसंसाधनमन्तरेण, पशोरिवायुर्विफलं नरस्य । तत्रापि धर्म प्रवरं वदन्ति, न तं विना यद्भवतोऽर्थकामौ ॥ १ ॥ ते धत्तुरतरुं वपन्ति भवने प्रोन्मूल्य कल्पद्रुमं, चिन्तारत्नमपास्य काचशकलं स्वीकुर्वते ते | जडाः । विक्रीय द्विरदं गिरीन्द्रसदृशं क्रीणन्ति ते रासभं, ये लब्धं परित्यज्य धर्म्ममधमा धावन्ति भोगाशयाः ॥ २ ॥ संप्रति जैनधर्म्म जग्राह । देवो गुरुधर्म एव मे भवतु । ततः संप्रतिभूपतिर्जिनधर्मवासितसप्तधातुश्राद्धपुङ्गवोऽभूत् । यतः - " आसने परमपए, पावेयव्वंमि सयलकल्लाणे । जीवो जिणिंदर्भाणियं, पडिवज्जइ भावओ धम्मं ॥ १ ॥ " सन्ध्यात्रये जिनाच करोतिस्म राजा । साधर्मिक वात्सल्यं प्रतिदिनं व्यधाच्च । सप्तक्षेत्र्यां धनं व्ययन् मनागपि For Private & Personal Use Only श्रीमहागिरिसुहस्तिसूरीश्वर - चरित्रम् । 11 890 11 w.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy