Book Title: Bharateshwar Bahubali Vrutti Part_1
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
॥ श्रीभरतेश्वर वृत्तिः ॥
॥ १६७ ॥
| तस्मिन् खगे वदति ज्ञात्वा स्वपुत्रस्थितिवृत्तान्तं विक्रमबाहुः समागात् । सङ्गमस्तत्र चान्योऽन्य - मुभयोरपि भूभुजोः । | प्रशस्यः समभूद्गङ्गा - कालिन्दीस्रोत सोखि ॥ १ ॥ ततः पवनवेगोऽपि युगबाहुं प्रणम्याह - मया स्त्रीहरणात्पापं कृतं तत् | क्षमस्व । ततो युगबाहुस्तं स्वसेवकं चक्रे । मणिचूडः सर्वान् खगान् स्त्रपुरेऽनैषीत् । ततः पुरीपरिसरे रम्ये संसूत्र्य मण्डपं | कारयामास मञ्चान्मञ्चान् । ततः सर्वेषु भूचरेषु खेचरेषु मञ्चोन्मञ्चेषु उपविष्टेषु विक्रमबाहुमणिचूडभूपावुपविष्टौ । | युगबाहुरपि तत्रोपविष्टः । ततोऽनङ्गसुन्दरी याप्ययानारूढा सारालङ्कारवस्त्रभूषितगात्रा तत्रागत्य पितुश्चरणौ प्रणम्य | निषसाद पितुरग्रतः । ततो राजाऽवग्- इयं मम पुत्री प्रश्नचतुष्टयं स्वकृतं जल्पिष्यति । तस्य यः प्रत्युत्तरं दास्यति स | परिणेष्यति मत्पुत्रीम् । ततस्तयोक्तं कः सकलः १, कः सद्बुद्धिः २, कः शुभगः ३ को विश्वजयी ४, एतस्य प्रश्नचतुष्टयस्य प्रत्युत्तरो न केनाऽप्यपुरि । ततो युगबाहुवर्णपाञ्चालिकापार्श्वदेवं पूरयामास । कः सकलः ? सुकृतरुचिः १, कः सद्बुद्धिः ? | विधेयकरुणापरः २, कः शुभगः ? शुभवादी ३ को विश्वजयी ? जितक्रोधः ४ ॥ १ ॥ एवं समस्यायां पूरितायां जयजयारावे | जायमाने कुमारी युगबाहुकण्ठे वरमालां चिक्षेप । शुभे मुहूर्ते विशेषतो राजा तयोः पाणिग्रहणं कारयामास । ततो मणिचूडो विक्रमबाहुप्रभृतीन् भूवन् सहस्त्रभूषणादिना मानयामास । ततो विक्रमबाहुः पुत्रयुतः स्वपुरमाययैौ ।
Jain Education International
For Private & Personal Use Only
श्रीयुगबाहुकथानकम् ।
॥१६७॥
www.jainelibrary.org

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376