Book Title: Atmatattva Viveka
Author(s): Udayanacharya
Publisher: Udayanacharya

View full book text
Previous | Next

Page 15
________________ उपोद्धातः। सुत्तपिटकान्तर्गतग्रन्थविशेषे भारहारसूत्राख्यं किमपि सूत्रमुपलभ्यतेतत्र भारतद्धारकतहणतत्त्यागरूपवस्तुचतुष्टयं सुष्ठु प्रतिपादितम् । भारस्थ पञ्चस्कन्धात्मकतया व्याख्यातत्वात्तद्धारस्य पुद्गलत्वं स्कन्धाद्यतिरिक्तत्वश्व स्पष्टमेव प्रतिभाति। तृष्णैवभारग्रहणम्, उपरमा. त्मकतृष्णाच्छेद एव तत्त्यागः । बुद्धघोषवसुबन्धुचन्द्रकीर्तियशोमि. त्रादिभिः सूत्रस्यास्य प्रकारान्तरेण व्याख्यातत्वेऽपि तात्पर्य स्कन्धाद्यतिरिक्तात्मसिद्धिपरमेव भाति । न्यायवार्तिककृतोद्योतकरणापि सूत्रमिदं नित्यात्मसिद्धिपरतयैव गृहीतम् । अतिप्रत्नधौद्धसिद्धान्तानामपरिक्षानेऽपि सुपरिचितानां तेषां शा. नमुदयनस्य सम्यगेवासीदिति तद्ग्रन्थावलोकनतः प्रतीयते । आत्मतत्त्वविवेककारमधिकृत्य न किमपि विशेषतो वक्तव्यमा स्ति । न्याये वैशेषिके च तन्ने स आचार्यत्वेन पूजाई इति नवीनैः सर्वैरेव विद्वद्भिः स्मर्यते, तस्य प्रामाण्यं सर्वैरङ्गीक्रियते च । तस्य मिथिलावास्तव्यत्वं सर्वथा सम्भाव्यते, तदनुकूला च लोकविश्रुता जनरुतिरपि। तद्रचितग्रन्थेषु साम्प्रतं न्याये वाचस्पतिकृताया न्या. यवार्तिकतात्पर्यटीकायाः परिशुद्धिरात्मतत्त्वविवेको न्यायकुसुमा. अलिः, वैशेषिके च प्रशस्तपादभाष्यटकिा किरणावली लक्षणावली च समुपलभ्यन्ते । स च तर्काम्बराङ्क ( ८०६) प्रमिते शकनपाब्दे लक्षणावली निर्ममे इति खीष्टीयदशमशताब्द्या मध्यमागे प्रादु. रासीत् । कल्पलताकृत् शङ्करमिश्रस्तावद् भवानीभवनाथतनयो मैथि. लो ब्राह्मणो न्याये वेदान्ते मीमांसायां काव्ये च कृतभूरिपरिश्रमः प्रसिद्धपाण्डित्य आसीत् तिन वेदान्ते खण्डनखण्डखाद्यस्य व्याख्या. तत्वेऽपि तस्य द्वैतवाद एव स्वरस आसीनाद्वैतवाद इति तद्ग्र. न्यानां सूक्ष्मेक्षिकया पर्यवेक्षणेन स्पष्टं प्रतिभाति । तस्य भेदरत्नप्र. काशः *खण्डनादिमतदूषणपूर्वको द्वैतवादस्य स्थापनापरोऽपि मधुसूदनसरस्वतीनिर्मिताद्वैतरत्नरक्षाया उपजीव्यभूतः । तेन तर्कशास्त्र : कणादसूत्रोपस्कारन्यायलीलावतीकण्ठाभरणकणादरहस्यकुसुमाञ्ज. त्यामोदोदयनकृतत्रिसूत्रीनिबन्धव्याख्याचिन्तामणिमयूखवादिविनो

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 217