________________
उपोद्धातः।
सुत्तपिटकान्तर्गतग्रन्थविशेषे भारहारसूत्राख्यं किमपि सूत्रमुपलभ्यतेतत्र भारतद्धारकतहणतत्त्यागरूपवस्तुचतुष्टयं सुष्ठु प्रतिपादितम् । भारस्थ पञ्चस्कन्धात्मकतया व्याख्यातत्वात्तद्धारस्य पुद्गलत्वं स्कन्धाद्यतिरिक्तत्वश्व स्पष्टमेव प्रतिभाति। तृष्णैवभारग्रहणम्, उपरमा. त्मकतृष्णाच्छेद एव तत्त्यागः । बुद्धघोषवसुबन्धुचन्द्रकीर्तियशोमि. त्रादिभिः सूत्रस्यास्य प्रकारान्तरेण व्याख्यातत्वेऽपि तात्पर्य स्कन्धाद्यतिरिक्तात्मसिद्धिपरमेव भाति । न्यायवार्तिककृतोद्योतकरणापि सूत्रमिदं नित्यात्मसिद्धिपरतयैव गृहीतम् ।
अतिप्रत्नधौद्धसिद्धान्तानामपरिक्षानेऽपि सुपरिचितानां तेषां शा. नमुदयनस्य सम्यगेवासीदिति तद्ग्रन्थावलोकनतः प्रतीयते ।
आत्मतत्त्वविवेककारमधिकृत्य न किमपि विशेषतो वक्तव्यमा स्ति । न्याये वैशेषिके च तन्ने स आचार्यत्वेन पूजाई इति नवीनैः सर्वैरेव विद्वद्भिः स्मर्यते, तस्य प्रामाण्यं सर्वैरङ्गीक्रियते च । तस्य मिथिलावास्तव्यत्वं सर्वथा सम्भाव्यते, तदनुकूला च लोकविश्रुता जनरुतिरपि। तद्रचितग्रन्थेषु साम्प्रतं न्याये वाचस्पतिकृताया न्या. यवार्तिकतात्पर्यटीकायाः परिशुद्धिरात्मतत्त्वविवेको न्यायकुसुमा. अलिः, वैशेषिके च प्रशस्तपादभाष्यटकिा किरणावली लक्षणावली च समुपलभ्यन्ते । स च तर्काम्बराङ्क ( ८०६) प्रमिते शकनपाब्दे लक्षणावली निर्ममे इति खीष्टीयदशमशताब्द्या मध्यमागे प्रादु. रासीत् ।
कल्पलताकृत् शङ्करमिश्रस्तावद् भवानीभवनाथतनयो मैथि. लो ब्राह्मणो न्याये वेदान्ते मीमांसायां काव्ये च कृतभूरिपरिश्रमः प्रसिद्धपाण्डित्य आसीत् तिन वेदान्ते खण्डनखण्डखाद्यस्य व्याख्या. तत्वेऽपि तस्य द्वैतवाद एव स्वरस आसीनाद्वैतवाद इति तद्ग्र. न्यानां सूक्ष्मेक्षिकया पर्यवेक्षणेन स्पष्टं प्रतिभाति । तस्य भेदरत्नप्र. काशः *खण्डनादिमतदूषणपूर्वको द्वैतवादस्य स्थापनापरोऽपि मधुसूदनसरस्वतीनिर्मिताद्वैतरत्नरक्षाया उपजीव्यभूतः । तेन तर्कशास्त्र : कणादसूत्रोपस्कारन्यायलीलावतीकण्ठाभरणकणादरहस्यकुसुमाञ्ज. त्यामोदोदयनकृतत्रिसूत्रीनिबन्धव्याख्याचिन्तामणिमयूखवादिविनो