________________
उपोद्धातः।
सर्वत्रैवाउनुसन्धानात्मकं व्यापकत्वमुपलभ्यते, जडस्य पुनर्विमर्श सारानात्मकन्धेन नास्ति स्वातन्त्र्यं नापि व्यापित्वम् । संविदोऽभि. नानामेव भास्यानां भासमानत्वाद्विश्वं जगत् संविदद्वयमयं चित्प्र. कृतिकामिति न कोऽपि संशयाऽवकाशः । . यामुनाचार्येण तु स्वनिर्मितात्मसिद्धिनिबन्धे विशिष्टाद्वैतसिद्धा. म्तं शठकोपनाथमुन्यादिभिः परिगृहीतं बोधायनटङ्कमिडाचार्या दिभिश्च समुपबृंहितमाश्रित्यात्मनिरूपणं कृतम् । तत्र चात्मा स्वत स्सिद्धः-विशुद्धेन बोगाभ्यासजनितप्रत्यक्षेणैव तस्य प्रकाशनं भन. ति । आत्मभावः पुनर्बोधोपाधिः । शानं तु मातुः स्वरूपप्रयुक्तमेव, अत एवात्मनो नित्यत्वात्तस्यापि नित्यत्वम् । स्वात्मावभासकं तत् संसारे चापवर्गे च सममेव तिष्ठति । सर्वकरणोपरमदशाया. मपि चैतन्यस्य सत्त्वं न छिद्यते, तेन हि चैतन्यमात्मनस्स्वभावत्वेन व्यपदिश्यमानं शास्त्रेषु दृश्यते । निश्चयसंशयादयस्तस्यैव प्रकार• भेदाः। आत्मनश्चैतन्यधर्मत्वेऽपि तस्य विवेकात्मकस्फुटप्रकाशरूप. स्फुरत्ताभावादुपपादनार्थमनुमानानामाप्तवचनानाञ्च संग्रहः क्रिय. ते । परन्तु तस्यापरोक्षक्षानोदयम्तु योगाङ्गानुष्ठानपूर्वकनिरोधाभ्या. सजन्यसत्त्वोद्रेकसापेक्षः। वैशेषिकसम्मतो मोक्षस्त्वप्रामाणिकत्वेन विशिष्टाद्वैताचार्यैर्नाद्रियते । अत्यन्तलुप्तकार्य वस्तु तत्कार्यजनने शक्तमिति न कुत्रापि दृष्टम् । नहि कश्चित्पदार्थस्स्वप्रकाशायासाधा. रणसजातीयान्तरापेक्षोडष्टः । तथा चात्मनस्सिद्धिरनन्यापेक्षेति नि. विवादम् । आत्मनः प्रकारभूतश्चैतन्यमर्थविशेषसंसर्गाद्धटशानादि. रूपतां प्रतिपद्यते । घटशानादयश्चैतन्यस्य दशाभेदाश्चेतयितुरात्मनो धर्मविशेषत्वात्तस्यापरोक्षाः। वैशेषिकनये यचैतन्यमात्मन आगन्तुकधर्मत्वेन निरूपितं तत्तु न समीचीनम् । ___ सर्वत्रायमेव विश्वासः समुज्ज़म्भते यत्सौगतास्सर्व एव देहाचतिरिक्तमात्मानं न मन्यन्ते स्मेति। एतन्मूलक एवोदयनस्य बौद्धमतनि रसनप्रयासः। प्रायः समुपलभ्यमानेषु बौद्धग्रन्थेषु नित्यात्मनस्सिद्धिन दृश्यत इत्युदयनस्य न कोऽपि दोषः । परन्तु केचिद् बौद्धास्सम्मि. तीया वजिपुत्तकाश्च पुद्गलवादिमो नित्यात्मनस्साधका आसनितीति. हासरट्या स्फुटमेव प्रतीयते। जिपुत्तकाःपुरैव मूलसंधाभेदमाप. मा बभूवुरिति तेषां प्राचीनत्वे न सन्देहलेशः। संयुत्तनिकायनाम्नि(२५)