________________
उपोद्धातः।
ज्ञानानां विश्रामभूमिरिति तस्माद् व्यतिरिक्तस्य जडस्य सत्वं न सम्भवति । एक एव परः प्रमाता स्वस्वातन्त्र्येण स्वस्मादभिन्नान् भावान् स्वस्मिन्नेवोद्भासयति विलापयति चेति तस्य स्वात्मस्थितिः कदापि च्युतिं नावहति । विमर्शाभावन जडत्वप्रसङ्गाद् व्यवच्छिन्न. भ्रमाश्रयवशात प्राणपुर्यष्टकप्रमातुर्जीवाख्यस्य मितात्मनो वेधत्वमेव, न तु पारमार्थिकं प्रमातृत्वम् । तथापि स एव प्राणादिकृतानां सङ्कोचानामपसारणतः परप्रमात्रात्मक ईश्वरव्यपदेशभाक्, प्राणा. दीनामपि चित्प्रकाशात्मकत्वात् । ईश्वर एव स्वेच्छया पशुभूमिका गृहीत्वाऽऽणधभावमुपगत इति जीवस्येश्वरस्वभावाभेदः। अनवच्छि. नप्रकाशानन्दमयपूर्णाहन्तास्फुरत्तामय एवेश्वरावभासः। तस्य नि. रोधः सङ्कचितशक्तिकेन जीवेन कदापि न साभ्यः । तथा सति जी. वस्य स्वसत्ताऽपि विलीयेत, अपरिच्छिन्नस्वशक्तिविकासाऽप्रथन. स्यैव जीवत्वात् । त्रिकदर्शनविदः स्वातन्त्र्यवादिनः। तत्रायं क्रमःजडभावानां संविनिरपेक्षं स्वतन्त्रं सत्वं नास्ति । ते च स्वभावतो. ऽसत्कल्पाः प्रकाशात्मकज्ञातुः सम्बन्धादेव सत्तावन्तः । अत एव केवला संविदेव स्वभावस्योच्छलत्वात् स्वकीयमायाशक्त्युल्लासि. तविश्ववैचित्र्ये जडत्वेन च वेद्यत्वेन वेदकत्वेन च स्वरूपाऽनति. रिकापि स्वरूपातिरिक्तेव स्फुरति । इदमेव तस्याः स्वातन्त्र्यम् । तच संयोजनवियोजनात्मकम् । एतद्विहाय जलस्य प्रकाशः कदा. ऽप्यनुभवपदवीं मारोहति । प्रत्यवमर्शस्येदमेव माहात्म्यं यदनेन स्वास्मन्यमिन्नतयावतिष्ठमानं विश्वमिदन्तयोद्भास्यते, तोद्भास्यमान तत् पुनः पराहन्तायां विलाप्य तत्राभिन्न सम्पाद्यते । माया चात्मा नः शक्तिः, तस्मादभिन्नाऽपि तस्य स्वरूपगोपनात्मिका क्रीडामयी। तत एवेदं विश्वमख्यातिमयमाभाति, तत्र चिदात्मनो व्यतिरिक्तं कि. मपि कारणं न सम्भवति, प्रकाशस्वभावात्तस्मात्तस्य व्यतिरकेऽप्र. काशमानतवाऽसत्त्वापत्तिप्रसङ्गात् । अत एव विश्वाभासनिर्मातृत्व मेव चिदात्मन ईश्वरत्वमिति स्पष्टम । इयं परा पारमेश्वरी शक्तिरे.
प्रमातुरादिभूतं स्वसंवेदनात्मकं तत्त्वम् । विविधषिच्छिन्नशा. मां नीलादिप्रतीतीनां संयोजने वियोजने च पूर्वाऽपरादिकोटिक्यानुसन्धानस्येयमेवाऽऽधारभूता। संविदात्मके पूर्णाहन्तापरा. मर्शसारे प्रमातरि सर्वे पदार्था व्यवस्थिताः । सदा स्वतन्त्रस्य तस्य