Book Title: Atmakhyati
Author(s): Yashovijay Gani
Publisher: 

View full book text
Previous | Next

Page 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः तत्तद्गुणानां विषयतया तद्धेतुत्वात् / सविषयकप्रकारकात्ममानसत्वस्यैव मनोयोगादिकार्यतावच्छेदक त्वाद्वा तदानीमात्ममानसादिनिरासात् / एतेनावच्छेदकतासम्बन्धेन जीवनयोनियत्नधर्माधर्मेतरात्मविशेषगुणोत्पत्ति प्रत्यवच्छेदकतासम्बन्धेन शरीरनिष्ठतया त्वङ्मनःसंयोग-प्राणमनःसंयोग-चर्ममनःसंयोगानां त्रयाणामेव विनिगमनाविरहेण निमित्तकारणत्वमिति न सुषुप्तिद्वितीयक्षणे आत्मादिमानसं न वा मृतशरीरे ज्ञानाद्यनुत्पाद[ ज्ञानाद्युत्पाद ?] इति प्राचां प्रलपितमपास्तम् / त्वङ्मनोयोगस्य सामान्यतो हेतुत्वे रसादिसाक्षात्कारकाले त्वचा द्रव्यसाक्षात्कारापत्तेः, सामान्यसामग्रोतया त्वङ्मनोयोगस्यावश्यकत्वात् / तदा न द्रव्येण समं त्वक्सनिकर्ष इत्यत्र वेदाभावात् / रसनमनोयोगादेस्त्वाचप्रतिबन्धकत्वे तु गौरवात् / मानसत्वावच्छिन्न एव त्वङ्मनोयोगो हेतुरित्यपि वार्तमेव, त्याचत्वावच्छिन्नं प्रति पृथक्कारणत्वे गौरवादिति न किंचिदेतत् / किं च विभुत्वे मृतशरीरावच्छेदेन स्वमनःसंयोगो न कुत इत्यपि प्रेर्यमेव स्वादृष्टोपगृहीतशरीरस्यैव स्वमनःसंयोगावच्छेदकत्वान्मृतशरीरस्यापि जीवदशायां तथात्वादिति ततो मनःसम्बन्धविगमोऽपि जीवसम्बन्धविगमादित्यकामेनापि प्रतिपत्तव्यम् / किं चात्मनो विभुत्वे संसारस्यैवानुपपत्तिः / संसरणं हि संसारः, स च भवान्तरगतिस्वरूप एवेति / विभोरपि सतः शरीरान्तरपरिग्रह एव भवान्तरगमनमिति चेत्-न, परिग्रहपदार्थानिरुक्तेः संयोगस्य तदर्थत्वेऽतिप्रसंगात् / तद्विशेषस्य च क्षीरनीरन्यायेनान्योन्यानुगमलक्षणस्य भिन्नदेशत्वेऽनुपपत्तेः, शरीरान्तरावच्छेदेन लब्धस्ववृत्तिकादृष्टजन्यभोग एव शरीरान्तरपरिग्रह इति चेत्-न, तस्य भवान्तरत्वे दिव्यर्द्धिमतां नानाशरीरैर्नानाभोगभुजामेकस्मिन् भवे भवान्तरापत्तेः / पूर्वशरीरसम्बन्धनाशे सतीति विशेषणान्नायं दोष इति चेत्-न, विभोः *सतः शरीरसत्त्वे पूर्वशरीरसम्बन्धनाशानुपपत्तेः तत्काले भवान्तरानापत्तेः पूर्वशरीरावच्छिन्नमनःसम्बन्धनाश. एव तदर्थ इति चेत्-न,त्ममनसोरन्योन्यानुगतत्वेन एकाविगमेऽन्याविगमात् / / - किं चैवं सति पूर्वशरीरसम्बन्धनाशे यावन्नोत्तरशरीरमुत्पन्न न च तदवच्छेदेन भोगो जातस्तावन्न पूर्वो भवो नापि भवान्तरमिति महद्वैशसम् / किं च पूर्वशरीरसम्बन्धनाशोऽपि स्ववृत्तितत्प्रागभावा सहवृत्तिर्वाच्योऽन्यथा नानाशरीरवतां कस्यचित्पूर्वशरीरस्य सम्बन्धस्य नाशेनातिप्रसंगात् , तथा च देवत्वे नरत्वभवमपेक्ष्य भवान्तरत्व' दुर्वचः भाविनरशरीरसम्बन्धप्रागभावस्य यदा सत्त्वादिति दिक् / * मूलादर्शस्थोऽयं पाठः सन्दिग्धः प्रतिभाति / For Private and Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 48