Book Title: Atmakhyati
Author(s): Yashovijay Gani
Publisher: 

View full book text
Previous | Next

Page 36
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः परमतेन कर्मणो द्विक्षणस्थायित्वम् परे तु कर्मणो द्विक्षणस्थायित्वमेव / तथाहि ---शरादौ कर्म, तत उत्तरदेशसंयोगस्ततः कर्मनाश इति. पूर्वसंयोगस्य विरोधित्वे विभागस्य हेतुत्वे च मानाभावात् , विभक्त इति प्रत्ययस्य संयोगध्वंसेनोत्पत्तौ विभाग. एव मानाभावात् / न चैवं कथं " पूर्वसंयोगनाशः कर्मणैव द्वितीयक्षणे. पूर्वसंयोगनाशस्योत्तरसंयोगस्य च जननात् / न चैवमविशेषाच्छरकर्मणा शरजतुसंयोगनाशापतिरारम्भकसंयोगविरोधिविभागाजनकेनापि च तन्तुकर्मणारम्भकसंयोगनाशापत्तिरिति वाच्यम् , तवापि मते तेन कर्मणा जतुविभागादिजननापत्तेः। यदि च तत्तत्कर्मणो विशिष्यैव तत्तद्विभागजनकत्वं त्वयेष्यते तदा मयापि विशिष्यैव तत्तत्संयोगनाशकत्वं वाच्यमित्याहुः / भारम्भकसंयोगविरोधिविभागजनककर्मणः पञ्चक्षणस्थायित्वम् .. अथारम्भकसंयोगविरोधिविभागजनककर्मणः कथं पञ्चक्षणस्थायित्वमिति चेत् , इत्थम् / तन्तौ कर्म, तत आरम्भकसंयोगप्रतिद्वन्द्वी तन्तुद्वयविभागः, ततस्तन्तुद्रयविभागातन्त्वाकाशादिविभागस्तत आकाशादिसंयोगनाशस्ततस्तन्तूत्तरदेशसंयोगस्ततः कर्मनाश इति / विभागजविभागो द्विविधः कारणाकारणविभागजः कारणमात्रविभागजश्च / तन्त्वाकाशविभागात्पटाकाशविभागः कारणाकारणविभागजः / तन्तुद्वयविभागातन्त्वाकाशविभागः कारणमात्रवृत्तिविभागज इति व्यवस्थितेः / नन्वारम्भकसंयोगविरोधिविभागजनकतन्तुकर्मणैव न कुतस्तन्त्वाकाशविभाग इति* चित्रारम्भकसंयोगप्रतिद्वन्द्विविभागजनककर्मणो नानारम्भकसंयोगप्रतिद्वन्द्विविभागजनकत्वमिति नियमस्य प्रमाणसिद्धत्वात् , अन्यथा विकसत्कमलकुडूमलभङ्गप्रसंगात् / कमलदलकर्मणाऽनारम्भकसंयोगविरोधिविभागस्येवारम्भकसंयोगविरोधिविभागस्यापि जननसंभवात् / न चैतदुपपत्तये अनारम्भकसंयोगप्रतिद्वन्द्विविभागजनककर्मणोऽनारम्भकसंयोगविरोधिविभागजनकत्वमित्येव नियमः सिध्यति, नत्वारम्भकसंयोगप्रतिदन्द्रिविभागजनकेन कर्मणा नानारम्भकसंयोगप्रतिद्वन्दिविभागजननमिति विपरीतनियम इति चेत् ? न, तुल्ययोगक्षेमतया तद्व्याप्त्यैवार्थत एतद्वयाप्तेरपि सिद्धेः / आरम्भकसंयोगप्रतिद्वन्द्विविभागजनककर्मणः षट्सप्तक्षणस्थायित्वम् ....... एवं च कारणमात्रवृतिविभागस्यारम्भकसंयोगनाशमपेक्ष्य तन्त्वाकाशादिविभागजनकत्वमिति पक्षे आरम्भकसंयोगप्रतिद्वन्द्विविभागजनककर्मणः षट्क्षणावस्थायित्वम् / द्रव्यनाशमपेक्ष्य तस्य तन्त्वाकाशादिविभागजनकत्वपक्षे सप्तक्षणस्थायित्वमिति / - - * इति चेत् ? नारम्भक * For Private and Personal Use Only

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48