Book Title: Atmakhyati
Author(s): Yashovijay Gani
Publisher: 

View full book text
Previous | Next

Page 37
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मनः शरीरपरिमाणत्वम् [ 31 ननु तन्त्वारम्भकसंयोगप्रतिद्वन्द्रिविभागजनिका क्रिया ततस्तन्तुद्वयविभागः, तत आरम्भकसंयोगनाशः, ततस्तन्त्वाकाशविभागः, ततस्तन्त्वाकाशसंयोगनाशः, ततस्तन्तूत्तरदेशसंयोग इति षट्क्षणस्थायित्वं तन्तुकर्मणः / एवमारम्भकसंयोगनाशद्रव्यनाशे सति तन्त्वाकाशविभाग इति मते सप्तक्षणावस्थायित्वं तस्येत्यभिप्रेतं तच्च न संभवति तथाहि तन्तुकर्मोत्पत्तिकाले शुकर्मोत्पत्तिसंभवाद्वितीयक्षणेश्वाकाशविभागः, तृतीये तेनैव तन्त्वाकाशविभागः, चतुर्थे तन्त्वाकाशसंयोगनाशः, पञ्चमे तन्तूत्तरदेशसंयोग इति पञ्चक्षणस्थायित्वस्यैव संभवात् / युक्तं चैतदन्यथा यत्रतत्तन्तुकोत्पत्तिचतुर्थक्षणे तन्त्वन्तरनाशात्तन्तुद्वयविभागनाशस्तनतत्तन्तुकर्मणैतत्तन्तोरुत्तरसंयोगो न स्यादेतत्तन्त्वाकाशसंयोगनाशकविभागाभावात् / तस्मात्तत्रांश्वाकाशविभागात्तद्विभागो वाच्यस्तथा चान्यत्रापि तथेति चेत् , न, परमाण्वोरारम्भकसंयोगप्रतिद्वन्द्रिक्रियाया एव मतभेदेन षट्सप्तक्षणस्थायित्वसंभवात् / पाकजप्रक्रियायाः दशैकादशक्षणस्थायित्वम् - एवं चास्य कर्मणः षट्क्षणस्थायित्वमते आचायैर्दशक्षणा पाकजप्रकिया प्रादर्शि सप्तक्षणस्थायित्वपक्षे चैकादशक्षणा / तथाहि घणुकनाशमारभ्य कतिभिः क्षणैः पुनरन्त्यव्यणुकमुत्पद्य रूपादिमद्भवतीति जिज्ञासायामुच्यतेऽन्यभिघातात्परमाणौ कर्म, ततः परमाणुद्वयविभागः, ततः परमाणुद्वयसंयोगनाशः, ततो यणुकनाशः परमाण्वाकाशविभागश्च युगपदेव, द्वयणुकनाशद्वितीयक्षणे परमाण्वाकाशसंयोगनाशः, तृतीये परमाणुत्तरदेशसंयोगः, चतुर्थे परमाणुकर्मनाशः, पञ्चमेऽदृष्टवदात्मसंयोगावयणुकान्तरारम्भणाय परमाणुक्रिया, षष्ठे परमाणुपूर्वदेशविभागः, सप्तमे परमाणुपूर्वदेशसंयोगनाशः, अष्टमे परमाण्वोराम्भकसंयोगः, नवमे द्वयणुकस्य, दशमे तद्रपस्योत्पत्तिरिति दशक्षणाः, द्वयणुकनाशद्वितीयक्षणे परमाण्वाकाशविभागोत्पादाभ्युपगमे चैकादशक्षणाः, पक्षद्वयेऽपि द्वयणुकनाशोत्तरमग्निसंयोगात्परमाणौ श्यामादिनिवृत्तिस्तदुत्तरक्षणे रक्ताद्युत्पत्तिः पाकजरूपनिवृत्तौ समवायेन द्रव्यस्य प्रतिबन्धकत्वात्सति द्वयष्णुके तदसंभवात् / . . एकस्मादग्निसंयोगात्परम्परया परमाण्वादिक्रियाक्रमेण द्वयणुकनाशोऽन्यस्माच्च श्यामादिविनाशोऽन्यस्माच्च रक्ताद्युत्पाद इति भाष्यकृतः / युक्तं चैतत्कदाचित्परमाणौ नीलस्य कदाचिपीतादेरुत्पत्तिरिति नियमाय विजातीयाग्निसंयोगानां परमाणुनीलत्वादेविजातीयामिसंयोगस्य च परमाणुरूपनाशत्वस्य. कार्यतावच्छेदकत्वात् / इदं तु बोध्यम् - For Private and Personal Use Only

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48