Book Title: Atmakhyati
Author(s): Yashovijay Gani
Publisher: 

View full book text
Previous | Next

Page 35
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मनः शरीरपरिमाणत्वम् तस्मादात्मसंयोग एवोत्तरसंयोगप्रतिबन्धकः। न चाकाशसंयोगत्वादिना विनिगमनाविरह आत्मत्वस्य जातित्वेन लघुत्वात् / न चात्मसंयोगवत्येवोत्तरदेशे शरादिकर्मणा संयोगजननात्सोऽपि कथं प्रतिबन्धक इति वाच्यम् , विशिष्यैवैतच्छरक्रियाविशिष्टात्मसंयोगत्वेनैतच्छरक्रियाजन्यसंयोगे प्रतिबन्धकत्वात् तस्मान्नोक्तरीत्या-पञ्चादिक्षणस्थायित्वमिति, नैतद् युक्तम् , क्रियाविरहविशिष्टनिरूपिततवृत्त्यनारम्भकसंयोगस्य तवृत्तिक्रियाजन्यसंयोगे प्रतिबन्धकत्वावश्यकत्वात् / नहि निश्चले पूर्वदेशे ततोऽविभज्यैवोत्तरदेशे संयुज्यतेऽननुभवात् / जतुसंयोगस्तु न तथा शरकर्मकाले जतुद्रव्येऽपि कत्पिादात् / एकतन्तुक्रियानाशकालीनापरतन्तुक्रिययोत्तरदेशसंयोगोत्पत्तयेऽनारम्भकेति, तद्वृत्तेरारम्भकसंयोगस्याप्रतिबन्धकत्वादिति दीधितिकृन्मतस्यैव युक्तत्वादित्यपरे / अन्यमतेन कर्मणः क्षणत्रयस्थायित्वम् __अन्ये तु कर्मण औत्सर्गिक क्षणत्रयस्थायित्वं / तथाहि-क्रियातो विभागस्तत उत्तरसंयोगस्ततः कर्मनाश इति। . न च पूर्वसंयोगस्याप्रतिबन्धकत्वे युगपदेव परमाणोः पूर्वापरदेशवृत्तित्वप्रसंग उत्तरसंयोगे विभागस्य हेतुत्वेनैव तन्निरासात् / .. न च परमाणौ यत्किचिद्विभागसत्त्वात्परमाणुकर्मद्वितीयक्षणे पूर्वसंयोगे सत्येवोत्तरसंयोगापत्तिरिति बाच्यम् , . एतद्वयक्तिवृत्तित्वविशिष्टं एतद्वयक्तिकर्मजं संयोग- प्रत्येतद्वयक्तिवृत्तिकर्मजो विभागो हेतुरित्युपगमादेवानतिप्रसंगात् / त्वयाऽप्यारम्भकसंयोगस्याप्रतिबन्धकत्वानुरोधेन पूर्वसंयोगस्य विशिष्यव प्रतिबन्धकताया वाच्यत्वात् / न च कारणाकारणसंपोगात्कार्याकार्यसंयोगधारावारणाय तयोः संयोगं प्रति तयोः संयोगस्य प्रतिबन्धकत्वावश्यकत्वात्सत्यात्ममनःसंयोगे मनःकर्मणा नात्मसंयोग उत्पादयितुं शक्यः, किन्तु तन्नाशे सति चतुर्थक्षणे, तदा च मनःकर्मतृतीयक्षणोत्पन्नशरीरमनःसंयोगादिना मनःकर्मनाश इत्यात्ममनःसंयोग एव न स्यादिति वाच्यम् , मनःकर्मणः स्वजत्यात्ममनःसंयोगस्यैव नाशकत्वात् , उत्तरसंयोगत्वस्याननुगतत्वात् , तत्त्वतत्वेन प्रतिबन्धकवे आत्ममुनःसंयोगे आत्ममनःसंयोगस्याप्रतिबन्धकत्वाद्वा, उत्तरसंयोगेन मनःकर्मनाशात, कार्यसहवृत्तित्वेन कर्मणो हेतुत्वाच्च मनःकर्मजात्मसंयोगधारानापत्तेः / - अतथात्वे तु प्रकृते शरीरमनःसंयोगेन मनःकर्मनाशक्षणे आत्मसंयोगसंभवात् / वस्तुतः संयोगजसंयोगस्यैव विजातीयसंयोगे परस्परं प्रतिबन्धकत्वं वाच्यमिति मनःकर्मणा तृतीयक्षणे आत्मसंयोगजनने बाधकाभावः कर्मजमनःसंयोगे मनःसंयोगस्याप्रतिबन्धकत्वादित्याहुः / For Private and Personal Use Only

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48