Book Title: Atmakhyati
Author(s): Yashovijay Gani
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 34] आत्मख्यातिः तस्थले शाखाशरीरविभागकाले मूर्त्तान्तरेण संयोगस्य एवं पूर्व मूर्तविभागकाले उत्तरोत्तरमूर्तसंयोगस्योत्पादेऽधिककालावस्थायित्वमपि / / ननु पूर्वोक्तस्थले शाखाकाशविभागस्यैव शाखाशरीरसंयोगनाशकत्वमस्तु / न च संयोगव्याप्यो विभागो नाशको येन केनचिद्विभागेन यस्य कस्यचित्संयोगस्यानाशादिति वाच्यम् , यत्र दीर्पण तन्तुनकस्तरोः शाखावच्छेदेन संयोगो जनितो विलम्बेन च मूलावच्छेदेनान्यस्तत्रामावच्छिन्नतरुतन्तुविभागेन मूलावच्छेदेन तरुतन्तुसंयोगनाशापत्तेः / न च तत्र मूलावच्छिन्नतरुतन्तुसंयोगो नश्यत्येव मूलावच्छिन्नांशुतरुसंयोगात्पुनस्तरुतन्तुसंयोगोऽन्यो जायत इति वाच्यम् , तथाग्रावच्छिन्नतरुतन्तुविभागकालोत्पन्नस्य मूलावच्छिन्नतरुतन्तुसंयोगस्य क्षणिकतापत्तेः, एतेन संयोगव्यापको विभागो नाशक इत्यपास्तं तस्य विभागस्य समवायेन मूलावच्छिन्नतरुतन्तुसंयोगव्यापकत्वात् / न चावच्छेदकतासम्बन्धेन संयोगव्यापको विभागो नाशक इति वाच्यम् , तन्तुकर्मणा शाखादिनानावयवावच्छेदेन तरुतन्तुसंयोगे जाते शाखाकर्मजशाखातन्तुविभागाच्छाखामात्रावच्छेदेन जातेन तरुतन्तुविभागेन पूर्वोत्पन्नतरुतन्तुसंयोगनाशानापत्तेः / एवमग्रेऽप्यवयवान्तरावच्छेदेन तरुतन्तुविभागादपि स संयोगो न नश्येत्तस्यापि संयोगाव्यापकत्वादिति / न चावच्छेदकतासम्बन्धेन संयोगव्याप्य एव विभागो नाशक इति वाच्यम् , यत्र दीर्धेण सन्तुना तरोरग्रमूलावच्छेदेन क्रमिकं संयोगद्वयं जनितं तत्र सर्वावयवावच्छेदेन जाताद्विभागात्तयोः संयोगयो शानापत्तेः / न च तत्र विभागद्वयं लाघवादेकस्यैवोत्पत्तेरुपगमादिति, मैवं, प्रतियोगितासम्बन्धेन संयोगनाशं प्रति जनकतासम्बन्धेन विभागस्य हेतुत्वेन स्वजनकसंयोगस्यैव विभागनाश्यत्वादिति तरुतन्तुसंयोगनाशं प्रति तरुतन्तुसंयोगावच्छेदकावच्छिन्नतरुतन्तुविभागो हेतुरेवमन्यत्रापि, तेन नांशुतरुविभागजन्यतरुतन्तुविभागात्स्वाजनकतरुतन्तुसंयोगनाशानापत्तिरित्यपि केचित् , अतः सिद्धं प्रकारान्तरेणापि पञ्चक्षणस्थायित्वं कर्मण इत्याहुः / __अत्र चिन्तयन्ति, कर्मणा संयोगे जननीये संयोगमात्रं न प्रतिबन्धकं तद्देशावच्छिन्नसंयोगे सत्येवान्यदीयकर्मणा तत्र संयोगस्योत्पत्तेः / न च तद्वृत्तिसंयोगस्य तद्वृत्तिकर्मजसंयोगप्रतिबन्धकत्वं सत्यारम्भकसंयोगेऽनारम्भकसंयोगविरोधिक्रियया तन्तोरुत्तरदेशसंयोगानुत्पत्यापत्तेः / ' आरम्भकसंयोगान्यत्वविशेषणेऽपि - सति जतुसंयोगादौ शरादेरुत्तरसंयोगानापत्तेः / न च तत्कर्मप्रयोज्यविभागनाश्यः संयोगस्तत्कर्मजन्यसंयोगप्रतिबन्धकः / प्रयोज्यत्वविशेषणादारम्भकसंयोगप्रतिद्वन्द्विविभागहेतुकर्मजन्यसंयोगेऽप्याकाशसंयोगस्य विरोधित्वमिति वाच्यम् , अनारम्भकसंयोगविरोधिक्रियाया आरम्भकसंयोगनाशकविभागाहेतुत्वस्यापि तत्तक्रियायास्तत्तत्संयोगनाशकतत्तद्विभागहेतुत्वाभ्युपगम एव संभवात् , तथा चारम्भकसंयोगसत्त्व इव शाखाकर्मजविभागकालीनशरीरसंयोगे सत्येव शाखाया उत्तरसंयोगे बाधकाभावात् तक्रियायाः शरीरसंयोगनाशकविभागहेतुत्वनिर्णयात् / For Private and Personal Use Only

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48