Book Title: Atmakhyati
Author(s): Yashovijay Gani
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 42] आत्मख्यातिः मानत्वात्। शबलवादे तु संग्रहबुद्धयैकीकृते आधारद्वये तादृशाधेयद्वयबुद्धरुपपत्तरेतद्वाक्यस्य योग्यता / व्यवहारदृष्टया तु मेदविवक्षावश्यकत्वान्न योग्यतेति व्यवस्थितिः / ____ अत एव घटपटयो रूपमित्यत्रापि संग्रहनयोपस्थापिते घटपटोभयसामान्ये रूपसामान्यस्यान्वयसंभवात् योभ्यत्वं, व्यवहारदृष्ट्या तु सामान्यवाचिनोऽपि रूपपदाद्भिन्नाश्रयवाचकपदसमभिव्याहारेण भिन्नमूर्तिकतयैवोपस्थितेरयोग्यत्वम् / अत एव तन्मते न पञ्चानां प्रदेशः किन्तु पञ्चविध इति विवेचितं प्रदेशदृष्टान्ते / अत एव चात्र स्याद् घटपटयो रूपं स्याद् घटपटयोन रूपमित्यादिसप्तभङ्गया एव प्रवृत्तिरिति स्वसमयरहस्यम् / __ यत्तु घटपटयो रूपमित्यादौ द्वित्वाश्रयवृत्तित्वबोधे तयोर्धटरूपमित्यपि स्याद्विवृत्तित्वबोधेऽपि तथा, द्वित्वपर्याप्तिमतोऽप्युभयस्य प्रत्येकानतिरिक्तत्वात् / द्वित्वपर्याप्त्यवच्छिन्नाधारतानिरूपितत्वसम्बन्धेन घटपटयोः सप्तम्यर्थवृत्तित्वेऽन्वयस्वीकारे च तयो रूपमित्यपि न स्यात् , न हि किमपि रूपमुभयवृत्तीति / द्वित्वस्य समवायेनैवान्वयस्तद्ववृत्तित्वस्यापि च रूपत्वादिसामानाधिकरण्येनान्वयबोध एवेदं साकांक्षमिति न दोष इति परेषां समाधानम् , तत्तुच्छम् , व्युत्पत्तिभमाद् घटपटयोर्घटरूपमिति बोधस्य जायमानस्य प्रामाण्यापत्तेः, रूपमित्यत्रैकत्वानन्वयप्रसंगाच्च, ऐकत्वविशिष्टे उभयवृत्तित्वानन्वयात् घटपटयोनक रूपमिति बोधस्य सार्वजनीनत्वात् / ... न चैकत्वमविवक्षितं, एवं सति द्वित्वाविवक्षया घटो नास्तीत्यत्र घटौ नास्तीत्यादेरपि प्रसंगात् / तस्मादत्र संग्रहनयाधीनसंकेतेन रूपपदस्य रूपसामान्यपरत्वं विना न निस्तारः। किंचोक्तदिशापि द्वयोर्गुरुत्वं न गन्ध इत्यादावगतिः गुरुत्वत्वसामानाधिकरण्येनेव गन्धत्वसामानाधिकरण्येनापि पृथिवीजलोभयत्वाश्रयवृत्तित्वसाम्याद्विधिनिषेधविषयार्थानिरुक्तेः / __ अत्र सप्तम्याः स्वार्थान्वयितावच्छेदकस्वरूपा तत्समव्याप्याऽतिरिक्तैव वाधेयतार्थस्तत्र प्रकृत्यर्थस्य तन्निष्ठनिरूपितत्वविशेषेणान्वयात् , पृथिवीजलोभयविशिष्टाधेयतात्वेन गुरुत्वं विधेयतया, गन्धो निषेध्यतया च प्रतीयत इति चेत् , तर्हि पृथिवीजलयोन गन्धो घटपटयोर्न रूपमिति केवलनिषेधस्थले का गतिः ? तत्र सप्तम्याः स्वार्थान्वयितावच्छेदकादिस्वरूपाधेयताविशेषानुपस्थापनेन तन्निषेधस्य कर्तमशक्यत्वात् / द्वित्ववद्विशिष्टाधेयतात्वावच्छिन्नं तु प्रत्येकधर्मे दुनिषेधम् | अथ जातिघटयोर्न सत्तेत्यत्र या गतिः सैव घटपटयोर्न घटरूपमित्यत्र ज्ञेया तथाहि- . तत्रं सत्ताभावे नोभयत्वपर्याप्त्यधिकरणवृत्तित्वान्वयो बाधात् / नाप्युभत्वाधिकरणवृत्ति त्वान्वयस्तथात्वे पृथिवीतद्भिन्नयोर्न द्रव्यत्वमित्यस्याप्यापत्तेः, द्रव्यत्वाभावस्याप्युभयत्वाधिकरणपृथिवी भिन्नगुणादिवृत्तित्वात् / किन्तु सप्तम्यर्थी निरूपितत्वं, समवेतत्वं च। तत्र निरूपितत्वे For Private and Personal Use Only

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48