Book Title: Atmakhyati
Author(s): Yashovijay Gani
Publisher: 

View full book text
Previous | Next

Page 33
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मनः शरीरपरिमाणत्वम् शकभावकल्पनामपेक्ष्य केवलावयविस्थले क्रियाव्यक्तिभेदेन क्रियासंयोगयोरनन्तकार्यकारणभावकल्पनस्यैव लघुत्वमिति-मथुरानाथवचनस्यावकाशः परमाणुक्रियानाशस्थले सामान्यतः * क्लप्तनाश्यनाशकभाव एव नाशाजन्यत्वं परित्यज्य वैजात्यप्रदेशेन निर्वाहात् / नन्वेवं परमाणुक्रियाकालोत्पन्नघटक्रियायाः परमाणूत्तरदेशसंयोगोत्तरोत्पन्नघटोत्तरदेशसंयोगेन नागत्तस्याः पञ्चक्षणस्थायितया कर्मणश्चतुःक्षणस्थायित्वनियमभंगप्रसंग इति चेत्-न, तन्नियमस्य रेषामव्यवस्थापराहतत्वात् / तथा च तेषां प्रक्रिया शिष्यबुद्धिवैशद्यार्थमुपदश्यते / कर्मण तुःक्षणस्थायित्वं तावत्सुप्रसिद्धमेव, त्रिक्षणस्थायित्वं वाऽजनितसंयोगस्य, द्विक्षणस्थायित्वं वाऽजनितविभागसंयोगस्य / अजनितसंयोगविभागत्वे कर्मणः कथमिति चेत् , अवयविनि कर्मोत्पत्तिर्यावदवयवकर्मोत्पत्तिव्याप्येति वैशेषिकवृद्धाः / यावदवयवकर्मव्याप्येत्यन्ये / युज्यते चैतत् , विभागग्रन्थे भाष्यकारेणांशौ कर्मोत्पत्यनन्तरं तदारब्धे तन्तौ कर्मकथनात् / द्वयमप्यौत्सर्गिक तन्तुकर्मनाशक्षणे सामग्रीबलात्पटे कर्मोत्पत्तेरियितुमशक्यत्वात् , तदा च तन्तौ कर्मोत्पत्तेरसंभवात्कर्मणस्तत्प्रतिबन्धकस्य सत्वादिति नैयायिकाः / .. .. मतत्रयेऽपि क्वचिदजनितसंयोगस्यापि विनाशः अवयविक्रियादिक्रमेणोत्तरसंयोगजननकाल एवाश्रयविनाशात् / अन्तिममतद्वये चावयविनाशकसामग्रीकाले जातस्यायवविकर्मणोऽजनितविभागः संयोगद्विक्षणस्थायित्वं तत्पूर्वकालोत्पन्नस्य वाऽजनितसंयोगस्य त्रिक्षणस्थायित्वं युक्तिसिद्धिमिति / आरम्भकसंयोगप्रतिद्वन्द्विविभागजनकस्य च कर्मणः पञ्चक्षणस्थायित्वमपि / दीधितिकृन्मतेन कर्मणः पञ्चक्षणस्थायित्वम् / दीधितिकृतस्तु प्रकारान्तरेणापि कर्मणः पञ्चक्षणस्थायित्वम् , तथाहि कर्मादिक्रमेण शरीरे पूर्वसंयोगनाशः शाखायां च कर्मेत्येकः कालः, ततः शाखाकर्मणा शाखाकाशविभागः शरीरकर्मणा शरीरशाखासंयोगश्च, तयोविभागस्तु तदा नोत्पद्यते संयोगविरहात् / असंयुक्तयोविभागजनने मेरुवन्ध्ययोरपि विभागापत्तेः। ततश्च शाखाकाशयोविभागात्त्योः संयोगनाशः शाखाकर्मणा च शाखाशरीर विभागःततश्च शाखाशरीरयोः संयोगनाशः, तदानीं च शाखाया नोत्तरसंयोगः शरीरात्मकपूर्वदेशसंयोगेन प्रतिबन्धात्। पूर्वदेशसंयोगस्याप्रतिबन्धकत्वे युगपदेव परमाणोः पूर्वापरदेशवृत्तित्वप्रसंगात् / पूर्वोत्पन्नस्तु शाखाकाशविभागो न शाखाशरीरसंयोगनाशकस्तदनधिकरणवृत्तित्वात् , ततः शाखाया उत्तरसंयोगस्ततः कर्मनाशः / एवं पाणिपूर्वसंयोगनाशकालोत्पन्नस्य शाखाकर्मणः षट्क्षणांवस्थायित्वं पाणिशाखासंयोगेन शरीरशाखासंयोगजनने क्षणविलम्बात् / / एवं अङ्गल्याः पूर्वसंयोगनाशकालोत्पन्नस्य सप्तक्षणावस्थायित्वमिति / एवं शाखाकर्मणो आ-५ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48