Book Title: Atmakhyati
Author(s): Yashovijay Gani
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मनः शरीरपरिमाणत्वम् [25 गुणमात्रवृत्त्युदयव्ययपरिणामनिषेधः हन्तेदं नव्यनास्तिकमतमेव तथा च तदुपगमः - सन्त्यणवो नित्यास्तथापि संयुक्ताणुद्वयं हृयणुकं संयुक्ताणुषट्कं त्र्यणुकं संयुक्ताणुचतुर्विशतिकं चतुरणुकमित्याद्यस्तु / लौकिकविषयतया द्रव्यसाक्षाकारत्वावच्छिन्ने त्र्यणुकत्वादिघटकसंयोगानां पिशाचत्वादिघटकसंयोगभिन्नानां वैजात्येन कारणत्वान्न केवलाणुव्यणुकादेः प्रत्यक्षता / न च वैजात्यकल्पने गौवं, त्वया द्रव्यारम्भकतावच्छेदकत्वेनाभिमतस्यैव मया पिशाचाद्यारम्भकत्वाभिमतसंयोगव्यावृत्तत्वस्वीकारात् / न च कार्यतावच्छेदकगौरवं द्रव्यनिष्ठलौकिकविषयतायां सम्बन्धत्वावश्यकत्वे साक्षात्कारत्वस्यैव तत्त्वसंभवात् / एवं हि महत्वोद्भतरूपयोर्द्रव्यसाक्षात्कारे पृथग्धेतुत्वाकल्पनालाघवम् , तादृशसंयोगविशिष्टवृत्तित्वादिकं गुणादिप्रत्यक्षे तन्त्रमिति केवलाणुव्यणुकादिगुणाप्रत्यक्षत्वेऽपि न त्र्यणुकादिगुणाप्रत्यक्षत्वम् / .. न च तन्तुनामेव पटत्वे तन्तुषु पट इत्यादिधीन स्यात् स्याद्वा तन्तुषु तन्तुरित्यादिकमपीति शङ्कनीय, फलबलेन विलक्षणसंयोगवत्त्वरूपतन्तुत्वादेरेव विलक्षणसंयोगत्वरूपपटत्वादिविशिष्टाधारतावच्छेदकत्वस्वीकारात् / पट उत्पन्नः पटो विनष्ट इत्यादिप्रतीतिस्तु शिखी विनष्ट इत्यादिप्रत्ययवद्विशेषणस्य पटत्वादिघटकसंयोगस्योत्पादविनाशविषयका / . एकः पट इति प्रतीतिरेकं वनमित्यादिवत्समूहैकत्वविषया / एतेन पटो महानिति प्रतीत्यनुपपत्रिणूनां महत्वासंभवादिति परास्तम् , समूहमहत्त्वबुद्धौ संयोगविशेषस्यैव विषयत्वात् / इत्थमेव महान् धान्यराशिरिति प्रयोगः सूपपादः / त्रुटावेव विश्रामे तु त्रुटिपुञ्ज एव घटादिरिति नानुपपत्तिलेशोऽपि / -अथ नानांशुक्रिययांशुसंयोगनाशात्तन्तुनाशस्तन्नाशात्पटनाश इति संभवति / तव मते तु नायं संभवो विलक्षणसंयोगवत्तावदणुपुञ्जात्मकस्य पटस्य यत्किचिन्नाशेऽपि नाशाभ्युपगमे विलक्षणसंयोगवत्तावदणुत्वस्य पटत्वादिरूपत्वे तावत्वस्य विलक्षणद्वयत्वादिरूपस्य प्रतिसन्धानं विना पटत्वादिप्रत्ययानुपपत्तेः / विलक्षणसंयोगत्वादिकमेव पटत्वतन्तुत्वादिकमित्युपगमे चाशुक्रिययांशुसंयोगनाशात्तन्तुनाशस्थले पटत्वघटकविजातीयसंयोगनाशानुपपत्तिस्तदवच्छेदकाक्च्छेदेनांशुक्रियाभावादिति चेत् , न, अनायत्या पटत्वघटकविजातीयतत्संयोगनाशे तन्तुत्वघटकतत्संयोगनाशत्वेन - हेतुत्वस्वीकारात् , इत्थमप्यन्तरा. तन्त्वादिनाशाकल्पने लाघवादिति चेत् / नन्विदं नव्यनास्तिकत्वं स्वीकुर्वतां नैयायिकानां मतं नास्माकम् , वयं हयेवं बमोऽपरित्यक्ताजनकावस्थास्वभावानां परमाणूनां न द्वयणुकादिजनकत्वं, न वा द्वयणुकत्वादिघटकस्य तज्जननेऽतिशयरूपस्य वा संयोगस्य जनकत्वं तत्राप्यतिशयान्तरापेक्षायामनवस्थानात् / न च तदुत्पत्तौ क्रियैवातिशयस्तदुत्पत्तावप्यतिशयान्तरापेक्षाया अविरामात् / अदृष्टवदात्मसंयोग एव तत्राप्यतिशय इति चेत्तत्राप्यदृष्टवृत्युबोधादिकारणं गवेषणीयमेवेत्यवश्यं स्वभावभेद आश्रयणीयः / आ-४ For Private and Personal Use Only

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48