Book Title: Atmakhyati
Author(s): Yashovijay Gani
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir *] ... आत्मख्यातिः सामान्यतो * भवन्त्येवासमवायिकारणानि, विशेषे तु पूर्वोक्तैव गतिरिति वाच्यम् , निमित्तपवन. संयोगादिवदणुत्वपरत्वयोरपि सामान्यतस्तद्वयवहारभाजोख्याप्तेः / ___ नाप्यात्मविशेषगुणान्यत्वे सति कार्यकारणैकार्थप्रत्यासत्त्या कारणत्वं तत्त्वं, कारणं समवायि तेन तेजःसंयोगायेकार्थसमवेतस्योष्णस्पर्शादेर्न पाकजादिकं प्रत्यसमवायित्वं, यद्यत्कार्यस्य तादृशप्रत्यासत्या कारणे यत्र नासमवायिकारणत्वव्यवहारस्तत्तत्कार्यप्रतियोगिकतवृत्तिभिन्नत्वेन कारणत्वंविशेषणान्न तुरीसंयोगादावतिव्याप्तिः, विभागप्रतियोगिकसंयोगवृत्तिभिन्नत्वपटादिप्रतियोगिकतुरीतन्तुसंयोगादिवृत्तिभिन्नत्वादिनाऽविशेषणान्न पटत्वादिप्रवेशादननुगम इति निष्कर्षोऽपि युक्तः, भेदप्रतियोगितावच्छेदककोटौ तत्त्कार्यप्रतियोगिकत्वादेविशिष्यनिवेशेऽननुगमस्य दुर्वास्त्वात् , अखण्डभेदनिवेशे चेतरविशेषणोपादानक्लेशस्यापि निरर्थकत्वात् , सामान्यतो विशेषतश्चान्यापोहाभ्यामेव तथा तथाऽसमवायिकारणत्वव्यवहारसंभवादिति यत्किचिदेतत् / अथास्तु यत्किंचिदसमवायिकारणत्वं, न हि तेन जन्यभावत्वावच्छिन्नहेतुता, किंतु जन्यद्रव्यत्वाद्यवच्छिन्ने विजातीयसंयोगत्वादिनेति। न च कपालयोः संयोगविशेषाद्रव्यान्तरोत्पत्तौ घटोत्पत्तिवारणाय घयादिजनकतावच्छेदकः संयोगनिष्ठो जातिविशेषोऽवश्यं स्वीकरणीयस्तासामेवोत्तरकालं संयोगविशेषेण घटारम्भदर्शनात् , तत् कपालत्वमेव नास्तीति वक्तुमशक्यत्वात् , तथा च जन्यद्रव्यजनकतावच्छेदकजातौ मानाभाव इति वाच्यम् , तथापि जलज्वलनादिद्वयणुकादिजनकतावच्छेदके मानाभावात्सामान्यतो जन्यद्रव्यजनकतावच्छेदकजातिकल्पन एव लाघवात् , तदाश्रयजलादिसंयोगे सति जलाधुत्पत्तौ विलम्बाभावात् , तथा च कपालसंयोग विना कथं घटोत्पत्चिरिति चेत्न , संयोगकर्मजन्यतावच्छेदकजातिभ्यामंभिघातत्वनोदनात्वाभ्यां च परापरभावानुपपत्त्या जन्यद्रव्यजनकतावच्छेदकजातेरेवासिद्धेः / अथ संयोगादिजन्यतावच्छेदकजातीनामेतज्जातिव्याप्यत्वस्वीकारान्न दोषः। न च विनिगमनाविरहः द्रव्यजनकतावच्छेदकजातेनोदनात्वादिव्याप्यत्वे तदाश्रयजन्यद्रव्ये जातिविशेषो. वाच्यः, सोऽपि विशेषो घटत्वपटत्वादिना परापरभावानुपपत्त्या घटत्वादिव्याप्यः स्वीकरणीय इत्यनन्तकार्यकारणभावापत्तेः / , अभिघातत्वादीनां नानात्वे च कर्मादिनिष्ठं तज्जनकतावच्छेदके जातिचतुष्टयमेव कल्पनीयमिति लाघवस्य विनिगमकत्वात् / वस्तुतो द्रव्यासमवायिकारणं संयोगः कर्मज एव, न संयोगजः / किमत्र विनिगमकमिति चेत् , परमाणोस्त्रसरेणोर्वा समवेतद्रव्यं प्रत्यसमवायिकारणस्य संयोगजत्वानुपपत्तिरेवेत्यतिलाधवमिति चेत् ? हत ! यद्येवं लाघवे दत्तदृष्टिर्भवान् तर्हि जन्यद्रव्यत्वं द्रव्यत्वं वा न जन्यतावच्छेदकं किंतु त्वदभिमतगुणकर्मादिसाधारणं, तथा चोत्पादव्ययपरिणामा गुणानामेव न द्रव्यस्येत्यस्मन्मतमेव किमिति नाश्रीयते ! - For Private and Personal Use Only

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48