Book Title: Atmakhyati
Author(s): Yashovijay Gani
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28] आत्मख्यातिः कार्यकारणभावद्वयमित्यपि निरस्तं, तन्तुघटसंयोगस्य समवायेन तन्तावपि सत्त्वेन तत्रापि घटवृत्तित्वविशिष्टसमवायेन विजातीयटघपटसंयोगोत्पत्त्यापत्त्यावारणात् , घटवृत्तित्वविशिष्टसमवायेन कार्यत्वावच्छिन्ने तादात्म्येन घटत्वादिना हेतुत्वकल्पने तु महागौरवम् / तन्तुप्रतियोगिकत्वविशिष्टघटपटसंयोगत्वादिना हेतुत्वेऽपि न निस्तारस्तन्त्वनुयोगिकघटसंयोगादपि घटपटसंयोगोत्पत्यभ्युपगमात् / ____किंच तन्तुघटसंयोगसमानकालोत्पत्तिककपालपटसंयोगजन्ये घटपटसंयोगे वैजात्यस्य सांकर्यम् / उभयजन्यतावच्छेदकजात्यन्तरस्वीकारे तदवच्छिन्नोत्पत्तिकाले प्रत्येकजन्यतावच्छेदकावच्छिन्नोत्पत्यापत्तिः / अन्यतरजन्येऽन्यतरस्य प्रतिबन्धकत्वे तु महागौखम् / अवच्छेदकभेदेन संयोगनानात्वाभ्युपगमस्त्वतिप्रसक्त इति न किंचिदेतत् / कर्मजन्यसंयोगस्य निराकरणम् 'एतेन कर्मजन्यसंयोगे कर्मणो हेतुतापि पराभ्युपगमनीत्या निरस्ता बोध्या तथाहि संयोगसामान्ये न कर्मणो हेतुता संयोगजसंयोगे व्यभिचारात् / न च तव्यावृत्तसंयोगनिष्ठवैजात्यावच्छिन्नं प्रति कर्मणो हेतुत्वं शरादिकर्मणाकाशे संयोगोत्पत्या तथापि व्यभिचारात् / क्वचिदेकतरकर्म क्वचिच्चोभयकर्महेतुरिति तु कार्यविशेषं विना दुर्वचम् / न चाम्युपगम्यत एव कार्यविशेष इति विजातीयसंयोग प्रति उभयकर्मत्वेन तद्विजातीयसंयोग प्रति चैकतरकर्मत्वेन हेतुतेति वाच्यं, घटं प्रति उभयदण्डत्वेनेव संयोगं प्रत्युभयकर्मत्वेन हेतुताया अप्रसिद्धेः / न च समवायेन विजातीयसंयोगे व्याप्यतासम्बन्धेन कर्मणो हेतुतयैवोभयकर्मणो हेतुत्वमिति साम्प्रतम् , 'तद्वयक्तित्वेन व्याप्यतया कर्मणोऽन्यतरकर्मजसंयोगस्थलेऽपि सत्वात्कार्यघटितव्याप्यतासम्बन्धेन च हेतोः कार्यात् पूर्वमसत्त्वेन तस्य कारणतानवच्छेदकत्वात् / . एतेन-विजातीसंयोगं प्रति कर्मत्वेनैव हेतुता तत्र, यद्यपि यत्र विजातीयः संयोगः समवायेन तत्र कमैंतादृशव्यापकताव्यभिचारेण न सिद्धा / तथापि यत्र तादात्म्येन विजातीयसंयोगस्तत्र सामानाधिकरण्येन कमैतादृश्येव व्यापकता कारणताघटिकेति प्राचां प्रलापा निरस्ताः। कार्यघटितसम्बन्धेन कर्मणः पूर्वकाले [ कालेऽसत्त्वेनै—] सत्त्वेनैतादृशन्यापकताया असंभवात् / ___ अथ यत्र कार्यतावच्छेदकसम्बन्धेन कार्योत्पत्तिस्तत्र तदव्यवहितपूर्वक्षणे कारणतावच्छेदकसम्बन्धेन कारणमिति नियमः / कारणताघटको यद्यप्यन्यत्र प्रसिद्धस्तथापि प्रकृते यदी यत्र तादात्म्यसम्बन्धेन विलक्षणसंयोगोत्पत्तिस्तदा तत्र तदव्यवहितपूर्व क्षणावच्छिन्नस्वसमवायाधारतावत्समवेतत्वसम्बन्धेन कर्मेति नियमस्यैव कारणताघटकत्वं कार्यभेदेन कारणताशरीरभेदात् / क्रियोत्पत्तिसमकालं For Private and Personal Use Only

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48