Book Title: Atmakhyati
Author(s): Yashovijay Gani
Publisher: 

View full book text
Previous | Next

Page 29
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मनः शरीरपरिमाणत्वम् 29] संयोगोत्पत्तिवारणायावच्छिन्नान्तमाधारताविशेषणं, पूर्वसंयोगस्य प्रतिबन्धकत्वेन तदानीं संयोगोत्पत्तिवारणे तु नोपादेयमेव तत् / तद्वयक्तिनिष्ठतत्कालपूर्वोत्पन्नमूर्तान्तरक्रियाधीनमूर्त्तान्तरसंयोगव्यक्तिषु तत्कालपूर्वोत्पन्नासु तदानीमुत्पद्यमानासु वा तद्व्यक्तिनिष्ठसंयोगव्यक्तिषु तदानीं तादात्म्येन संयोगोत्पत्तिप्रसंगे तु तद्वारणाय विलक्षणसंयोगत्वविशिष्टस्वसमवाय्युत्पत्तिकत्वं कारणतावच्छेदकसम्बन्ध एष्टव्य इति चेत् ? न, एवं हि कारणाव्यवहितोत्तरक्षणत्वापेक्षया लाघवात्सर्वत्र कारणक्षणत्वमेव कार्योत्पत्तिव्याप्यमिति तुल्यकालयोरपि शक्तिविशेषात् प्रतिनियतरूषेण कार्यकारणभावः / अत एव ‘क्रियमाणं कृत 'मिति सिद्धान्तप्रवाद इत्यस्मदीयं निश्चयनयमतमेवादृतं स्यादिति कृतान्तकोष एव परेषाम् / / ___किंचैतावतापि समवायसम्बन्धेन विलक्षणसंयोगोत्पत्तौ नियामकं मृग्यम् , एतेन स्वाव्यवहितपूर्ववर्तिक्रियावद्वृत्तित्वविशिष्टसमवाये न विलक्षणसंयोगावच्छिन्ने समवाये न क्रियात्वेन हेतुत्वान्न व्यभिचारः, घटस्य समवायेनोत्पादं विना संयोगेनोत्पादवत् तादृशविशिष्टसमवायेनोत्पादं विना केवलसमवायेनोत्पत्तेरलीकतया न क्रियाविरहदशायां केवलसमवायेन विलक्षणसंयोगोत्पत्तिरित्यपि निरस्तम् , तावतापि विलक्षणसंयोगः केवलसमवायेन क्वचिदेव जायते क्वचिन्नेत्यत्र नियामकाकथनात् / - यत्तु रुद्रभट्टाचार्यदृष्टम् उभयकर्मजसंयोगस्थले विजातीयसंयोगं प्रति कर्मणो या हेतुता सा नोभयकर्मत्वेन किन्तु कर्मत्वेनैव, कारणता कार्यतावच्छेदकश्च समवाय एव, एकतरकर्मजसंयोगे तादृशवैजात्याभावेन व्यभिचाराभावात् / एकतरकर्मणां तु तत्संयोग प्रति तद्व्यक्तित्वेनैव हेतुता सत्र कालिक्यैव व्यापकता कारणताघटिकेति, तन्न। सुष्ठु दृष्टम् , प्रमाणान्तरसिद्धवैजात्याभावे कर्मत्वावच्छिन्नजन्यतावच्छेदकतयोभयकर्मजस्थले तदवच्छिन्नवैजात्यस्यैकतरकर्मजस्थले (1) बलादापत्तेः एकतरकर्मजस्य समवायेनोत्पत्तौ नियामकानुपलब्धेश्च / / ___नव्यास्तु तत्तत्यिात्कवेन कारणता तत्तक्रियाधीनसंयोगत्वेन कार्यता तद्व्यक्तिवृत्तित्व-: विशिष्टसमवायः समवायश्च कार्यकारणतावच्छेदकसम्बन्धौ, तत्तत्कर्माधीनत्वं च तत्तत्कर्मजन्यतावच्छेदको जातिविशेषो, न च यत्कर्मव्यक्त्या . एक एव द्रव्ये संयोगो जनितस्तत्र तदसंभवो जातेरेकव्यक्तिवृत्तित्वाभावादिति वाच्यम् / एकयैव कर्मव्यक्त्यैकेन सममुत्तरसंयोगजननदशायामनन्तपवनगगनादिसंयोगानामवश्यं जननात् / न चोभयकर्मजन्यसंयोगे तत्तत्कर्मव्यक्तिद्वयजन्यतावच्छेदकयोः सांकर्य तत्रापि जात्यन्तरापन्युपगमात् / न च तस्यैकव्यक्तिवृत्तित्वम् , अवच्छेदकभेदेन सर्वत्रोभयकर्मव्यक्तिजन्यसंयोगानां नानात्वावश्यकत्वात् / .. न च द्रव्यारम्भकसंयोगजनककर्मव्यक्तिजन्यतावच्छेदकस्य द्रव्यारम्भकतावच्छेदिकया सांकर्य तत्कर्मव्यक्त्याऽनारम्भकगगनादिसंयोगस्याप्यवश्यं जननादिति वाच्यम् , तादृशकर्मजन्यतावच्छेदक For Private and Personal Use Only

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48