Book Title: Atmakhyati
Author(s): Yashovijay Gani
Publisher: 

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10] आत्मख्याति: निर्वाहः / किं च न द्रव्यत्वेनेत्यत्र नार्थे कस्यान्वयः दण्डत्वधूमत्वगर्भकारणताव्याप्त्यौव्यत्वावच्छिन्नत्वाभावेन तदवच्छिन्नतद्वतो अर्थे भेदेऽन्वयस्य कर्तुमशक्यत्वात् / प्रतियोम्यभावान्वययोस्तुल्ययोगक्षेमत्वाद्र्व्यत्वावच्छिन्नत्वस्य नगर्थेऽभावे तस्य च कारणव्याप्यपदार्थ कदेशकारणताव्याप्त्योरेवात्रान्वय इति चेत्-न, अनुभूयमानप्रतियोगिकभेदापलापे न प्रतीतेरन्यथात्वव्यवस्थापने शाखायां न संयोग इत्यत्रापि संयोगे शाखावच्छिन्नत्वाभावावगाहित्वव्यवस्थापने शाखावच्छिन्नसंयोगाभावादेरप्यसिद्धिप्रसंगात् / अपि चात्मद्रव्यात्तत्परिमाणादीनां भेदस्तावदन्यैरपि स्वीक्रियत एव,अभेदस्तु तत्संबन्धतयैव सेत्स्यतीत्येवमपि भेदाभेदः सुलभ एव, समवाये मानाभावात् / समवायनिरासः * तथा हि —गुणक्रियाजातिविशिष्टबुद्धयो विशेषणसंबन्धविषयाः विशिष्टबुद्धित्वाद्दण्डीति बुद्धिवदित्यनुमानान्न तत्सिद्धिः, अभावज्ञानादिविशिष्टबुद्धिभिर्व्यभिचारात् / न च तासामपि स्वरूपसम्बन्धविषयत्वान्न व्यभिचारस्तर्हि तेनैवार्थान्तरत्वात् / न च लाघवात्पक्षधर्मताबलेनैकसमवायसिद्धिः, पक्षबाहुल्ये लाघवस्यानुपादेयत्वात् / अन्यथा द्रव्यमपि पक्षेऽन्तर्भाव्य समवायसिद्धिप्रसंगात् / न चानुभवसिद्धसंयोगाद् द्रव्ये समवायबाधः, प्रमाणसमाहारे प्रमेयसमाहाराविरोधात् / न च नानाविशेषणसम्बन्धे एकत्वानेकत्वादर्शनात्तत्र लाघवगौरवानवकाशेऽप्येकत्र सम्बन्धैकत्वानेकत्वयोर्दर्शनेन तत्र तदवकाशात् प्रत्येकविशिष्टबुद्धिपक्षीकरणे लाघवात्समवायसिद्धिः। ... स्वरूपसम्बन्धस्य सम्बन्धिद्वयात्मकत्वेन गौरवाद्धर्मीति न्यायस्याप्येककल्पनालाघवमूलत्वेना. त्रानवतारादिति वाच्यम् , द्रव्येऽपि तत्सिद्ध्यापत्तेः / न च संयोगत्वावच्छेदेन सम्बन्धत्वकल्पनात्संयोगसम्बन्धवति सम्बन्धान्तरकल्पने लाघववैपरीत्यं, गुणगुण्यादिद्वये तु नैवमनुगतधर्मान्तरमस्ति येन क्लुप्तलाघवाद्वैपरीत्यं स्यादिति वाच्यम् , तत्रापि वस्तुत्वसत्त्वाद्यवच्छेदेन वैलक्षण्यविशेषावच्छेदेन वा सम्बन्धत्वकल्पनात् , किं च प्रतीतेविषयनियमोऽनुभवात्सामग्रीमेदावा न तु लाघवात् , अन्यथा सविषयकत्वानुमानं सर्वविषयकत्वावगायेव स्यात्तत्तदविषयकत्वापेक्षया तत्तद्विषयकत्व एव लाघवात् / / ___अथ विशेषणसम्बन्धनिमित्तका इति साध्यं हेतौ च सत्यत्वं विशेषणं तेन विशिष्टश्रमे न व्यभिचारः बुद्धिपदं च प्रत्यक्षपरं तेन नांशतो बाधव्यभिचाराविति समवायसिद्धिरिति चेत्-न, गुणादिविशिष्टप्रत्यक्षे विशेषणसम्बन्धत्वेन न हेतुत्वं सम्बन्धत्वस्य विषयत्वादिगर्भतया जनकतावच्छेदकत्वादिति मिश्रेणोक्तत्वात् / अत एव गुणादिविशिष्टप्रत्यक्षे गुणादिसमवायेन हेतुत्वं, * एतत् समवायनिराकरण 'न्यायालोकस्य द्वितीयप्रकाशेऽप्यस्त्यैव / For Private and Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48