Book Title: Atmakhyati
Author(s): Yashovijay Gani
Publisher: 

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मनः शरीरपरिमाणत्वम् / सार्वभौमैर्विशिष्टातिरेकाभ्युपगमात् / न चैवं विशिष्टसत्तानिश्चयेऽपि सत्तासंदेहापत्तिः नवापि विशिष्टसत्तानिश्चयस्य विशिष्टासत्तासंशयव्यावृत्तसत्तानिश्चयत्वशून्यतया विशिष्टसत्तानिश्चयत्वेन व्यावतकतयैव वा पृथक्प्रतिबन्धकत्वध्रौव्यात् / __ अस्माकं तु कथंचित्पदेनैव निस्तारः, विशिष्टसत्ताया विशिष्टसत्तात्वेनातिरेकेऽपि सत्तात्वेनानतिरेकात् / अत एवानन्तपदार्थकल्पनागौरवमपि निरस्तं, समाहितं च प्रत्यभिज्ञानादिकम् / . सर्वथा विशिष्टानतिरेके नारकशरीरविशिष्टात्मनि तदवस्थे सुखाभावः कष्टसाध्यः / आत्मत्वसामानाधिकरण्येन नारकशरीरावच्छिन्नसुखाभावसाधने नारकिमात्रे तत्सिद्धेरुद्देश्यायो अभावादात्मत्वावच्छेदेन तत्साधने च बाधात् , विशिष्टातिरेके तु तन्मात्रवृत्तिहेतुना तन्मात्रवृत्तिसाध्यसिद्धिरनावाधेति विभावनीयं सुधीभिः / ____ननु विशिष्टानतिरेकेऽपि प्रतीतिबलाद्विशिष्टाभावातिरेकत्वादिना तत्तत्परिमाणविशिष्टात्मभेदाभ्युपगम इति संभवात् किमधिकं भवतामिति चेत्-न, कथंचिद्वादेनेवास्माकमाधिक्यात् / अयमिदानीं न देवत्वविशिष्टो मनुष्यत्वविशिष्टो न देवत्वविशिष्टो मनुष्यत्वेनाय स्वाभिन्नो देववेन स्वभिन्न इत्यादिप्रतीतिभिर्विशिष्टधर्मावच्छिन्नप्रतियोगिताकतादृशाधिकरणताकतत्तद्विशेषणावच्छिन्नस्वप्रतियोगिकभेदानां यथोपयोगं भूयसामेव ग्रहणाच्छबलात्मके वस्तुनि यथाक्षयोपशमं कियतामेव पर्यायाणां ग्रहेऽपि तत्त्वतोऽनन्तधर्मात्मकवस्तुपरिच्छेदादेव सम्यग्दृष्टित्वोपपत्तेः / ____ अत एव व्यधिकरणधर्मावच्छिन्नाधिकरणताप्रतियोगिकभेदाभिप्रायेण घटत्वेन चैत्रो नात्मा चैत्रो घटत्वेन नात्मेत्यादिप्रयोगा अप्यात्मा नात्मादिसप्तभंग्यां संगच्छन्ते / उवाच च वाचकचक्रवर्तीद्रव्यात्मेत्युपचारः सर्वद्रव्येषु नयविशेषेण आत्मादेशादात्मा भवत्यनात्मा परादेशादिति / अवच्छेदकभेदेनाप्येकत्र भेदाभेदानभ्युपगन्तृभिश्च दण्डत्वेन दण्डो घटकारणं न द्रव्यत्वेन, धूमत्वेन धूमो वह्निव्याप्यो न द्रव्यत्वेनेत्यादि कथं समर्थनीयम् ? अत्र तृतीयार्थेऽवच्छिन्नत्वे दण्डत्वपदार्थस्य धूमत्वपदार्थस्य च निरूपितत्वसम्बन्धेन, तस्य चावच्छिन्नत्वीयस्वरूपसम्बन्धेन कारणपदार्थैकदेशकारणतायां व्याप्यपदार्थंकदेशव्याप्तौ च व्युत्पत्तिविशेषेणान्वयान्न दोषः, अन्यथासिद्धिनिरूपकतानवच्छेदकघटव्यापकतावच्छेदकत्वविशिष्टदण्डत्वरूपायाः कारणतायाः शुद्धदण्डत्वेन, स्वसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकवह्नित्वावच्छिन्नसामानाधिकरण्यविशिष्टघूमत्वरूपाया व्याप्तेश्च शुद्धधूमत्वेनावच्छेद्यत्वादिति चेत्-न, तथापि दण्डत्वं घूमत्वं च विशिष्टत्वेनावच्छेद्य शुद्धत्वेन च नावच्छेद्यमिति बलाद्मेदाभेदान्तरोपनिपातात् / विशिष्टातिरेकोपगमेऽपि विशिष्टदण्डत्वरूपायाः कारणताया आधारता चेद्दण्डस्वरूपा तदा दण्डवति तद्वत्त्वात्ययप्रसंगो दण्डत्वस्वरूपाच्चेत्तदा सा दण्डावच्छेदेनाधारतात्ववती विशेषणावच्छेदेन च न तथेति सर्वत्र सूक्ष्मेक्षिकायां भेदाभेदं विना न आ-२ . For Private and Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48