Book Title: Atmakhyati
Author(s): Yashovijay Gani
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मनः शरीरपरिमाणत्वम् इतीदानी न बाल इत्यस्य - बालस्वविशिष्टवृत्तिमद्भिन्नैतत्कालीनधर्मवानित्यर्थः, युक्तं चैतन्न पृथगिति प्रतीतेस्तदवधिक पृथक्त्वाभाववद्र्व्यत्वेन तदन्योन्याभावाभावसिद्धेः, तदाहुायाचार्या: 'श्यामाद्रक्तो विधर्मा न तु पृथग' इति चेत्–न, प्राङ् न बाल इत्यस्याप्यापत्तेः, बाल्यकालावच्छेदेन बालवृत्तियों धर्मस्तद्भिन्नस्यं सत्त्वादेः प्राक्कालवृत्ते यूनि सत्त्वात् , ईदृशश्यामवैधय॑स्य श्यामनिष्ठत्वाच्छयामो न श्याम इत्यादेरपि प्रसंगात् / किं च भेदोऽप्यस्माकं नात्यन्तमतिरिक्तः, किंतु द्रव्यपर्यायात्मैवेति वैध→पर्यायमादाय न भेदप्रतीत्यपह्नवः। अन्यथा कथंचिच्छाब्दबुद्धयुपपादनेऽप्युक्तवैधर्म्यस्य प्रत्यक्षबुद्धौ कथमारोह इति विचारणीयम् / अत एव भेदानामभेदानां चापरिमितत्वादात्मनः शरीरपृथक्त्वाभावात्तद्धर्माभेदोऽप्यत्यन्तविशेषपर्यायं यावदवर्जनीय इति कथंचिन्मूर्तत्वेन तस्य शरीरानुप्रवेशादिकमपि नानुपपन्नम् / अनेनैवाभिप्राये एक आत्मेत्यादिसूत्रप्रसिद्धेः, 'अन्योन्यानुप्रवेशेन शरीरै क्यमापन्नस्यैव करणभेदेनानेकान्तात्रैविध्यसिद्धेः,बाह्याभ्यन्तरविभागस्य चेन्द्रियनोइन्द्रियबुद्धिमात्रकृतत्वेन शङ्गाग्राहिकयाऽव्यवस्थितः,उभयपर्यायाणां शरीरात्मद्वित्ववदविवेचनीयत्वादिति विभावनीयम् / यन्महावादी.--. अण्णुण्णाणुगयाणं, 'इमं च तव' ति विभयणमजुत्ते / जह दुद्धपाणियाणं, जावंत विसेसपज्जाया // स्वाइपज्जवा जे, देहे जीवदवियंमि सुद्धंमि / ते अण्णुण्णाणुगया, पण्णवणिज्जा भवत्थंमि // एवं 'एगे आया, एगे दंडे य होइ किरिया य' / करणविसेसेण तिविहजोगसिद्धी वि अविरुद्धे // // य बाहिरओ भावो, अब्भतरओ य अस्थि समयमि / णोइंदियं पुण पडुच्च, होइ अब्भंतरविसेसो // [सम्मतिप्रकरण काण्ड 1, गा. 47-50] न च शरीरसम्बन्धात्प्रागात्मनोऽमुर्तत्वं दुर्वारं संसारावस्थायां तदा तैजसकामणशरीरसम्बन्धाभ्युपगमात् , अन्यथा तत्तद्व्यवच्छिन्नस्थूलशरीरसम्बन्धायोगात्पुद्गलोपष्टम्भव्यतिरेकेणोर्ध्वगतिस्वभावस्य दिग्गमनासम्भवात् / मनुष्यशरीराधक्षणे आहारक्रियायाः पूर्वशरीरप्रयोग विनाsसम्भवात्प्रांगपि शरीरसम्बन्धसिद्धेः / शरीरवृद्धित्वावच्छिन्ने आहारस्य हेतुत्वं च लोकावगतमेव, शरीरवृद्धित्वं च शरीरत्वव्याप्यो जातिविशेषः, स्वविशिष्टौदारिकाद्यन्यतमत्वं वा। न चैवं लाघवांच्छरीरत्वावच्छिन्न एवाहारस्य हेतुत्वाद्विग्रहगतावप्याहारप्रसंग इति वाच्यम् , आगमानुपग्रहे लाघवस्याकिंचित्करस्वात् / किंचानादिशरीरबन्धनसिद्धावेव तन्नाशार्थ मुमुक्षोः प्रवृत्त्युपपत्तिः, For Private and Personal Use Only

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48