Book Title: Atmakhyati
Author(s): Yashovijay Gani
Publisher: 

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18.] आत्मख्यातिः ........ वप्यन्योन्याभावप्रतियोगित्वतदवच्छेदकयोरप्रसक्त्यतिप्रसक्त्योः, विरहपदस्य. तज्ज्ञानप्रतिबन्धकज्ञानविषयार्थत्वे : प्रतिबन्धकत्वस्य चैककालावच्छेदेनैकत्रावर्तमानत्वग्रहेऽपि . व्यधिकरणसम्बन्धेन. सर्वस्य प्रतियोगिनस्तादृशभ्रमेऽन्यत्रापि स्वाभाववत्वेन ज्ञाते. सर्वत्र धर्मिणि प्रतियोगिमत्ताज्ञाने मानाभावात् / यद्धर्मावच्छेदेन यत्सम्बन्धावच्छिन्नयदभावप्रकारकज्ञानकालीनज्ञानीयप्रकारतासामान्ये तद्धर्मावच्छिन्नविशेष्यतानिरूपितत्वतत्सम्बन्धावच्छिन्नत्वोभयाभावस्तज्ज्ञानं तद्विरोधिवाच्यमित्युक्तावपि यदभावेत्यादौ षष्ठ्यर्थप्रतियोगित्वस्य दुर्वचत्वात् , तत्र स्वरूपसम्बन्धस्यैव शरणीकरणीयत्वेऽन्यत्रापि तस्यैवावश्यकत्वात् , तस्य च विनाश्रयमसंभवाद् ध्वंसकाले प्रतियोगिस्थितिसिद्धिः / हन्तैवं प्रतियोगितानुप्रवेशेन ध्वंसे घटादेखि घटे पटादेरपि भेदप्रतियोगितानुप्रवेशेन स्थितिप्रसंग इति सर्व सर्वात्मकमिति खण्डनमखण्डनीयं स्यादिति चेत्-न, तव्यत्वाद्रव्यत्वाभ्यां भेदात् स्यात्कारमुद्रया खण्डनस्य मण्डनत्वाच्च / यदा च पूर्वोत्तराकारपरित्यागोपादानतयैकं मृदादिवस्त्वध्यक्षतोऽनुभूयते तदा तत्तदपेक्षया कारणं कार्य विनष्टमविनष्टं उत्पन्नमनुत्पन्नं नामेति संमतिवृत्तिकृदादयः, तथा च बालयुवत्वाद्यवस्थाभेदेन शरीरद्रव्यमात्मद्रव्यं च त्र्यामकमिति सुव्यवस्थितम् / इदमेवानूदितं हरिभद्रसूरिभिः शास्त्रवासिमुच्चये लज्जते बालचरितैर्बाल एव न चापि तत् / युवा न. लेज्जते चान्यस्तैरायत्यैव चेष्टते // युवैव न च वृद्धोऽपि, नान्यार्थ चेष्टते च तत् / / अन्वयादिमयं वस्तु, तदभावोऽन्यथा भवेत् // इति बालत्वाद्याः . शरीरस्यैवावस्था नत्वात्मनस्तस्य सदाऽविचलितस्वरूपत्वादिति चेत्-न, अहत्वसामानाधिकरण्येन प्रतीत्यैतासामात्मधर्मत्वस्याप्यविरोधात् / अन्यथा बालत्वादिप्रयोज्यदोषगुणयोरात्मन्यनुपपत्तेः। हन्तैवं गौरोऽहमित्यादिधिया कायात्मनोरभेदः सिध्यन् चार्वाकमतं न प्रतिक्षिपेदिति चेत् - न, स्यात्कारस्यैव चार्वाकनैयायिकयोरुभयोरपि वारणे समर्थत्वान्मूगपतेरिव मृगवारणयोः ये तु प्रत्यभिज्ञाभिया बाल्यादिभेदेऽपि शरिरमप्येकमेवेत्येकान्तेऽभिनिविशन्ते / तदुक्तं पदार्थरत्नमालायाम् "परे तु तत्राश्रय एक एव प्रत्यभिज्ञानादिति मन्यमानाः परिमाणान्तरोत्पादमाहुरि "ति ते त्वबाधितभेदव्यवहारमेव नानुरुन्धते / अथ युवा न बाल इत्यत्र यूनि बालवैधर्म्यमेव भासते, तत्र ततो वृत्तिमान् भिन्नं चार्थः वृत्तिमति बालपदार्थस्य बालत्वावच्छेककालावच्छिन्नाघेयतया वृत्तिमतो भिन्ने तत्रैव च कालादेरप्यन्वय For Private and Personal Use Only

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48