Book Title: Atmakhyati Author(s): Yashovijay Gani Publisher: View full book textPage 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मनः शरीरपरिमाणत्वम् परात्मशरीरस्य समवेतत्वावच्छिन्नत्वाभावादित्यस्यैवोत्तरत्वात् / अपि चात्मनो विभुत्वे मृतात्मनि पारलौकिकशरीरावच्छेदेन ज्ञानाद्युत्पाददशायां विद्यमानमृतशरीरावच्छेदेन कुतो न ज्ञानाद्युत्पादः ? मृतात्मसमवेतज्ञानादिकं प्रति जीवद्दशायां मृतशरीरस्य कारणत्वेन कारणसमाजसत्त्वात् / __ अत एव सामान्यतोऽवच्छेदकतासम्बन्धेनात्मविशेषगुणत्वावच्छिन्नस्य शब्देतरात्मविशेषगुणत्वावच्छिन्नस्य चोत्पत्तौ तादात्म्येनं चेष्टाविशिष्टत्वेन शरीरस्य च समवायेन चेष्टात्वेन चेष्टाया वा हेतुत्वं कल्प्यते / मृतशरीरे च चेष्टाविरहान्न दोषः / चेष्टात्वं च जातिविशेषः, उत्क्षेपणापक्षेपणत्वादेस्तद्व्याप्यविरुद्धभेदेन नानात्वाभ्युपगमात् , चेष्टात्वस्योत्क्षेपणत्वादिविरुद्धत्वाभ्युपगमाद्वा न सांकर्यमिति चेत्-न, ज्ञाने क्रियाया हेतुत्वस्य तदवच्छेदकत्वस्य वादृष्टस्य कल्पनाया अन्याय्यत्वात् / __ चेष्टावत्त्वेन चेष्टात्वेन वा सामान्यतो हेतुत्वेन परकीयशरीरेऽतिप्रसंगवारणायोगाच्च / चैत्रत्वादिजातिरूपेण शरीरविशेषस्येव चेष्टात्वव्याप्यजातिविशेषेण तद्विशेषस्योपादातुमशक्यत्वात् / चैत्रादिशरीरजन्यत्वावच्छेदकचेष्टागतविशेषोपादानेऽवयवचेष्टाया अवयवजन्यतावच्छेदकतद्गतविशेषोपादाने चावयविचेष्टाया अनुपसंग्रहादवयवावयविनोरमेदस्य च त्वन्मतेऽनुपगमात् / .. किं च मृतशरीरे चेष्टाभाव एव कुतः ? आत्मनो विभुत्वे प्रयत्नवदात्मसंयोगस्यापि तत्र सुलभत्वादिति पर्यनुयोगे किमुत्तर वाच्यमायुष्मता ? तदानीं तच्छरीरावच्छिन्नतदीयप्रयत्नाभावात्तच्छरीरावच्छिन्नचेष्टाभाव इत्युक्तौ तादृशप्रयत्नाभावोऽपि तादृशचेष्टाभावादिति व्यक्त एवान्योन्याश्रय इत्यात्मसम्बन्धविगमादेव मृतशरीरे निश्चेष्टत्वं भोगानवच्छेदकत्वं चेति प्रतिपत्तव्यम् / अत एव जीवद्दशायामप्यावच्छिन्ननखकेशाद्यवच्छेदेन सुखदुःखाभाव आत्मसम्बन्धविरहकृत एव, तथा चेष्टाभावस्यापि तत्प्रयुक्तत्वादिति निश्चितमात्मनः शरीरपरिमाणत्वम् / __ अथासमवायिनः कार्यसहभावेन हेतुत्वान्मनोयोगनाशकालोत्पत्तिकपरामर्शादिना सुषुप्तिसमकालोत्पत्तिकमनोयोगसहभूतेन तद्वितीयक्षणेऽनुमित्याद्यनापत्तावपि तदानीमात्मात्मत्वादिमानसोत्पत्तिवारणार्थमात्ममनःसंयोगस्य समवायसम्बन्धनिरूपितशरीरावच्छिन्नाधारतासम्बन्धेनामविशेषगुणत्वावच्छिन्नं प्रत्यसमवायिकारणत्वं कल्प्यते / इत्थं च त्वचः शरीरव्यापकतया निस्त्वचि. पुरीततौ शरीराभावेन सुषुप्तिकाले शरीरापच्छेदेन मनःसंयोगविरहान्नोक्तापत्तिरिति मृतशरीरावच्छेदेनापि मनःसंयोगे मानाभावान्न तदवच्छिन्नज्ञानाद्युत्पत्तिरिति चेत्-न, सुषुप्तौ जीवनयोनियत्नधर्माधर्माणामप्यनुत्पत्त्यापत्तेस्तथाहेतुत्वे मानाभावात् , आत्मनो विशेषगुणोपधानेनैव भानेन तता विशेषगुणाभावेन तत्प्रत्यक्षाभावा For Private and Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 48