Book Title: Arhadgita Bhagvadagita ya Tattvagita
Author(s): Meghvijay,
Publisher: Mahavir Granthmala
View full book text
________________
अध्याय
ऐन्दव्यपि कलावृद्धिं । लभतेऽनुक्रमाद्यथा ॥ तथेहतत्वविद्यापि । ज्ञानिनां बाह्यहेतुभिः ॥१॥ अज्ञानहेतवः सर्वे-प्यधर्मा विषयायथा ॥ तथा धर्मोज्ञानबीजं । दयादानादिकाःक्रियाः ॥ २॥ आयुघृतं यशस्त्यागः । कार्यकारणयोगतः ॥ पूजाध्ययनदीक्षादि-र्धमसाध्याय साध्यते ॥३॥ स्वाध्यायः स्याद्गुरूपास्ते । शास्त्रध्ययनवाचनैः ॥ हेयोपादेयबोधोऽस्मा-ततःकैवल्यसंपदः ॥ ४ ॥ सुदृष्टपरमार्थानां । जंगमस्थावरात्मनाम् ॥ सेवायात्रादिभिः कार्ये । निर्मले ज्ञानदर्शने ॥ ५ ॥ युक्ताहारविहाराद्यैः । समितीनांप्रवर्तनः ॥ निवर्त्तनैः कषायादे-र्ज्ञानाच्चरणमद्भुतम् ॥ ६ ॥ ज्ञानदर्शनचारित्र-योगाद्धर्मस्फुटंभवेत् ॥ शैवः पंथाअयंसेव्य-स्सम्यक्तत्वविमर्शिना ॥ ७ ॥ दानान्निदानल्लक्ष्मीणां । दानावरणसंक्षयः ॥ येनविश्वप्रबोधार्थ । दातात्माजायतेस्वतः ॥ ८ ॥ वेयावृत्त्येऽन्नपानाद्यै-गुरुचैत्यादिषुध्रुवम् ॥ आत्मनोजायतेसर्व-लाभभोगावृत्तिक्षयः ॥ ९ ॥ तेनसर्वार्थबोधस्य । लाभश्चानंन्दभोगयुक् ॥ अनन्तःस्याद्यथाबीजं । फललाभोविनिश्चयात् ॥१०॥ तथोपभोगबीर्यादेः । सर्वथावरणक्षयः ॥ बीर्याचारात्तपस्यादौ । तेनस्याज्जगदर्चनम् ॥११॥ छत्रचामरपुष्पाद्यैः । पुजासननिवेशनम् ॥ पादपेम्बुजन्यासा-दिकंचजिनपुजनात् ॥१२॥

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86