Book Title: Arhadgita Bhagvadagita ya Tattvagita
Author(s): Meghvijay, 
Publisher: Mahavir Granthmala

View full book text
Previous | Next

Page 54
________________ अध्याय ॐ श्री गौतमउवाच ऐन्दवी निर्मला कान्तिः । शान्तिभृत्परमेश्वरे॥ सिद्धे पूर्णतयाभाति । चिदानन्दाभिनन्दिनी ॥ १ ॥ एक्ये प्रतिष्टिते तस्मिन् । एकोहि परमेश्वरः ॥ आत्मनःपरमैश्वर्ये- ऽनैक्यंतद् घटते कथम् ॥ २ ॥ ३ श्री भगवानुवाच । लोकालोकात्मकं बस्तु । सद्रूपमेकमेवतत् ॥ तच्छक्तिचेतनामुख्या । ताप्यात्तदनेकता ॥ ३ ॥ भावैक्यं द्रव्यदृष्टयैवः । पर्यायात्तदनेकता ॥ द्रव्यक्षेत्रे कालभावै-बहूधापर्ययोदयः ॥ ४ ॥ अर्हत्सुच यदार्हन्त्यं । या च सिद्धेऽस्तिसिद्धता ॥ तथा स्वभावादानैक्यं । तदेक्यंशाश्वतंस्वतः ॥ ५ ॥ यथा सिद्धे जिनेनैक्यं । शक्यं श्रीपरमैश्वरे ॥ यदेकंतदनेकंस्या-दितिव्याप्ति विनिश्चयात् ॥ ६ ॥ आत्मत्वजातिमानात्मा । सोऽवस्थाभेदतोद्विधा । क्षेत्रज्ञाःपरमात्माच । न भिन्नं द्रव्यमीश्वरः ॥ ७ ॥ न्यायशास्त्रमिति प्राह । लोकेप्रामाणिकं हि तत् ॥ जीवःशिवाशिवोजीव-इतिस्मानुशासनात् ॥ ८ ॥ चतुर्विशतिसंख्यादि-जिने सिद्धे प्रतीयते ॥ सा विवक्षितकालेन । बस्तुतस्तदनन्तता ॥ ९ ॥ एकोप्यकारस्तत्वेन । चतुर्विंशतिभेदभाक् ॥ तथा स्वरूपादेकस्मिन् । जिनेसिद्धेप्यनेकता ॥१०॥

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86