Book Title: Arhadgita Bhagvadagita ya Tattvagita
Author(s): Meghvijay, 
Publisher: Mahavir Granthmala

View full book text
Previous | Next

Page 70
________________ अध्याय श्री गौतमउवाच ऐन्द्रं रूपं यथामुख्यं । सर्वदेवेषु गीयते ॥ ॐकारस्तद्वदणेषु । तत्राकारः पुरस्सरः ॥ १ ॥ अव्ययत्वादकारास्या-ऽनेकेऽर्थाःसद्भिराहिताः॥ तेनाकारण किंध्येयो-हन्वा कृष्णो विधिर्भवः॥ २ ॥ * श्री भगवानुवाच * कारागृहं च संसारो । जीवयोनिः भवभ्रमः । तद्भावादकारोऽर्हन् । कैवल्यादक्षरादिमः ॥३॥ नराः प्राणभृतां मुख्याः। प्रागुक्तास्तेषु शुद्धवाक् ॥वाक्शुदिातृकाभ्यासा-दकारस्तनमुखे ततः॥ ४ ॥ भवेत् सिद्धिः नृलोकस्य ।लोकविष्णोःसनाभिगः॥नाभिजवाद कारोऽर्हन्। ततःसंवृत यत्नवान्॥ ५॥ तथाऽष्टादशधाकारो-विबाराच्छादिके नये ॥ बोढा संवृत्तयत्नेन । चतुर्विंशतिधा ततः ॥६॥ उच्चारणेपि शब्देन । यदाकारो निराकृतिः ॥ लेखने साकृतिः द्वेधा । मुक्तोवा मोचकोप्ययम् ॥ ७ ॥ आकारस्तत एवास्य । स्वरूपाद्दीर्घतां दधौ ॥ अर्हत्पार्श्वस्थितेर्वेत्ता । तेनाकारं निषेवते ॥ ८ ॥ ऐकोप्यकारस्तादात्म्या । चतुर्विंशतिधा भवेत ॥ आकारादि भिदातद्व-दहन्नेकोपि वस्तुतः ॥ ९ ॥ वर्णव्यवस्था सकला-प्पाद्यान्नाभिभुवोऽर्हतः ॥ तथाकारादसौस्पष्टा । साक्षाद्विश्वंभरोप्ययम् ॥१०॥

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86