Book Title: Arhadgita Bhagvadagita ya Tattvagita
Author(s): Meghvijay, 
Publisher: Mahavir Granthmala

View full book text
Previous | Next

Page 44
________________ अध्याय १७ व अथकर्मकांड @ श्री गौतमउवाच ऐक्यं प्रपश्यतस्तत्वात् । स्वामिस्तनुभृतो नतु ॥ विधेयमविधेयं वा । किंचिन्नैवप्रभासते ॥१॥ एवं सति नदेवः स्यात् । सेव्यःकश्चिन्नवागरुः ॥ नधर्म:शर्मणेकार्य-स्त्याज्योऽधर्मश्च कश्चन ॥ २ ॥ श्री भगवानुवाच .. साध्यार्थी यतते सर्वः । साधने निर्विवाधने ॥ साध्येब्रह्मणितत्कार्यः कामनाशोऽस्यवाधनः ॥ ३॥ मायापि ब्रह्मरूपैव । तद्विवर्तमयीस्वयम् ॥ सत्वात्तथार्थकारित्वात् । प्रपंचोऽस्याः विजृभते ॥ ४॥ भास्वन्मणि प्रदीपादेः । प्रभानकान्ततोऽपरा ॥ नधर्मिण:परासत्ता। धर्माणां सर्वथा कचित ॥५॥ प्रपंचजननान्माया-पीच्छामात्मनि वर्द्धयेत् ॥ तस्यानिवृत्तये भाव्या । व्युत्पादविगमावपि ॥ ६॥ एकंमौलनयात्तत्वं । स्यात्सत्गौणनया द्विधा ॥ एकस्मिन्भूरुहेनाना । मूलं पुष्पं फलं दलं ॥७॥ एकंयत्तदनेकंस्या-सदसभिन्नमन्यथा ॥ अनित्यनित्यमाख्येयं । मनाख्येयं जगद्विधा ॥८॥ लोकोलोकस्तथाजीवो । ऽजीव:परोऽपरःपुन: रूप्यरूपी जडोदक्षः । प्रत्यक्षो वा परोक्षकः ॥९॥ स्त्रीपुंसौ द्रव्यपर्यायौ । शरोऽर्थोप्यशुभंशुभम् ॥ रात्रिर्दिनंक्रियाज्ञान-मेवंभावोभयी गतिः ॥ १० ॥

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86