Book Title: Arhadgita Bhagvadagita ya Tattvagita
Author(s): Meghvijay,
Publisher: Mahavir Granthmala
View full book text
________________
अध्याय
श्री गौतमउवाच ऐन्द्र श्वान्द्रे प्रपूज्योयः । सकीदृक्परमेश्वरः ॥ यद्भिक्तिःक्रियमाणासौ । सत्वानां शिवसंपदे ॥ १ ॥
श्री भगवानुवाच भवेस्ति मुख्यं मानुष्य-मृषभाद्यायदात्मकाः ॥ देवाधिदेवादेवानां । सेव्या लब्धमहोदयाः ॥ २ ॥ श्रीनारायणरामाद्याः । संजाताः पुरषोत्तमाः ॥ धर्मार्थकाममोक्षाख्यं । पुरुषार्थचतुष्टयम् ॥ ३ ॥ नरान्नारायणोत्पत्तिः । शाद्विकैरपि गीयते ॥ पौरूषं फलमित्येवं । नृजन्मोत्तममीरितम् ॥ ४ ॥ तत्रापि पुरूषो ज्येष्टः । श्रेष्टःसर्वगुणाश्रयः ॥ यजन्मनि भवेद्धर्षो । भिक्षूणां भूभुजांसमः ॥ ५ ॥ पुरुषेष्वपि यो धर्म । रसिक:स्यात्कषायजित्॥सएव देवदेवोऽर्थ्यः । स्तोतव्यःकाव्यकोटिभिः ॥ ६ ॥ जीवाजीवमयो लोकः । कर्त्तायपरमेश्वरः ॥ स्वरूपस्य स्वयंधर्ता । सिद्ध:शुद्ध सनातनः ॥ ७ ॥ दुग्धे सारं यथासर्पिः । पुष्पे परिमलस्तथा ॥ तथा लोकेपि चैतन्यं । तस्मिन् कैवल्यमुत्तमम् ॥ ८॥ सर्वसंगविनिर्मुक्तः । सिद्धः केवलबोधनात् ॥ स एव परमेष्टीति । गेयोहस्तात्विकैर्जनैः ॥ ९ ॥ तेनैव मातृकापाठे-ऽप्पोनमः सिद्धमुच्यते ॥ मायांगजो नवाकृष्णो । नरुद्रो वा नमस्कृतः ॥१०॥

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86