Book Title: Arhadgita Bhagvadagita ya Tattvagita
Author(s): Meghvijay, 
Publisher: Mahavir Granthmala

View full book text
Previous | Next

Page 48
________________ अध्याय ® श्री गौतमउवाच ऐश्वर्यशालीपरम-स्त्वं तुभ्यं सततं नमः ॥ भगवन् वद मे येन । भवेत्तत्वप्रकाशनम् ॥ १ ॥ श्री भगवानुवाच । चिदानन्दमयं ज्योति-स्तत्वंस्पष्टं तपोवलात् ॥ जगत्प्रकाशकं मिथ्या। मोहध्वान्तविनाशकम् ॥ २ ॥ यथाग्नितापात् पूपादौ । सिद्धिःकर्णेऽर्कतोयतः। तथाङ्गिनस्तपोयोगात्ः। सिद्धिःशुद्धिःखरूपभाक्॥ ३ ॥ कायशुद्धिर्बाह्यतपो। योगाद्विनयसाधनात् ।। बाक्शुद्धिर्मनसः शुद्धिः । स्वाध्यायादेवकेवलात् ॥ ४ ॥ त्रेधाशुध्यात्मनःशुद्धि-रात्मतत्वंतदुत्तमम् ॥ आत्मतत्वायबोधाय । शेषतत्वप्ररूपणा ॥ ५ ॥ प्रसिद्धिर्नवतत्वानां । बहुधा जैनशासने ॥ अन्यथा तत्वदशकं । प्रतिपक्ष परीक्षया ॥ ६ ॥ तेनतृतीयतुर्याङ्गे । बेदनाया:पृथक्ग्रहः ॥ बंधेमोक्ष प्रतिपक्षो। बेदनायां हि निर्जराः ॥ ७ ॥ प्रदेशैर्वेदनावश्यं । विभाषात्वनुभागतः ॥ तत्वानि नव वा सप्त । तेन ख्यातानि लाघवात् ॥ ८ ॥ एकमेवात्मनस्तत्वं । ज्ञेयंसिध्दांतचिन्तनः ॥ निवार्यभवकार्याणि । मदनोन्मादनिग्रहात् ॥९॥ शास्त्राद्विदिततत्वस्य । विरक्तस्यापि कामिनः ॥ ध्यानेनात्माभवेत्साक्षा-दित्याहुर्योगपाक्षिकाः॥१०॥

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86