Book Title: Arhadgita Bhagvadagita ya Tattvagita
Author(s): Meghvijay, 
Publisher: Mahavir Granthmala

View full book text
Previous | Next

Page 51
________________ अध्याय सिद्धेनानाभिधानानि । यथा गुरूपदेशनम् ॥ ओमित्याख्या तत्र मुख्याः। सर्वशास्त्र प्रतिष्टिताः ॥११॥ रक्षत्यवति सर्वान्यः । सोमतिचशाद्विकाः॥ अखण्डमव्ययंचैतत् । सिद्धस्यैवाभिधायकम् ॥१२॥ अर्हत्यर्चामिन्द्रकृता-महनवाच्योऽस्त्यकारतः ॥ डप्रत्ययानामसिद्धेः । शुद्धः केवलरूपभाक् ॥ १३॥ उइत्युच्चैर्गतौमोक्षे । दीर्घोकारस्तुरक्षणे ॥ अस्ययोगादुनासिद्धेः-संध्यक्षरे तृतीयके ॥ १४ ॥ अर्द्धचंद्राकृति:सिद्ध-शिलाबिन्दुस्तदुर्द्धगः॥ सिद्धेऽनाकारतोख्यायी । जगन्मूद्धनि संस्थिते॥ १५॥ ॐकाररूपात्साकारो। नाकारोविन्दुरूपतः ॥ सिद्धोऽनाकारसाकारो-पयोगादुभयात्मकः ॥१६॥ अतत्यात्माप्यकारेण । बाच्यःकेवलशालिनाम् ॥ उः पंचमीगतिर्मोक्षः । पंचमखरसंज्ञया ॥१७॥ तयोर्योगे मितिमहा-नन्दःसपुरुषोद्भवः ॥ परमेश्वरसंज्ञासौ । ताद्रुप्यंतत्स्मृतेर्भवत् ॥१८॥ अईत्यहन्ऋकारःश्री । ऋषभोरेभवेदतः ॥ अमित्यर्हन्महाबीर-स्तत्संधावोंप्रतीयते ॥१९॥ नमस्त्रिधोर्चिते सोर्हन् । विधि,विष्णुरीश्वरः ॥ सकइत्यादिशंकायां । सिद्धमित्याहनिर्णयात् ॥ २०॥ ज्योतिःशास्त्रेसिद्धशद्वा-चतुर्विशतिसंख्यया ॥ तावन्तीनतिराख्यायि । स्वयंमातृकयाऽन्वयात् ॥ २१॥ ॥ इतिश्रीअर्हगीतायांकर्मकाण्डविंशत्यऽध्यायः ॥ २० ॥

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86