Book Title: Arhadgita Bhagvadagita ya Tattvagita
Author(s): Meghvijay,
Publisher: Mahavir Granthmala
View full book text
________________
अध्याय १९
KELLY***T****
श्रोतव्यश्चापि मतव्यः । साक्षात्कार्यश्चभावनैः ॥ जीवोमायाविनिर्मुक्तः ॥ सएष परमेश्वरः ॥ ११ ॥ श्रोतव्योऽध्ययनैरेष | मंतव्यो भावनादिना ॥ निदिध्यासनमस्यैव । साक्षात्कारायजायते ॥ १२ ॥ साक्षाच्चकुपूर्वमतं । येःध्यानात्परमर्षयः ॥ तेऽपिध्येया सदामीषां । शुद्धाचरणचिन्तया ॥ १३ ॥ योध्यायति यथाभावं । तादात्म्यं लभते हि सः ॥ संसर्गयोगाद् ध्यानेन । भ्रमरीस्यादिहेलिका ॥ १४ ॥ पिण्डस्थं च पदस्थं च । रूपस्थंरूपवर्जितम् ॥ चतुर्धा ध्यानमाम्नातं । तादात्म्यप्रतिपत्तये ॥ १५ ॥ येदिव्यरूपा मुनयः । सिद्धास्तन्नामजापतः ॥ पदस्थं खलुरूपस्थं । स्यात्तेषां स्थापनादिषु ॥ १६ ॥ स्वस्मिन्नेव च ताद्रुष्ये। पिडस्थंभाविते सति ॥ आत्मन्येव यदात्मा या । स्थितिस्तद्रूपवर्जितम् ॥ १७ ॥ सिद्धानैकेनतन्मूर्ति - नीतेषुध्यानगोचराः ॥ ज्ञानदानात्पूर्वदशा - ध्येयैषां गोरखे ततः ॥ १८ ॥ ज्ञानेाद्योऽर्हदादिर्य - स्तद्ध्यानाच नमस्क्रियाः ॥ तादात्म्याप्राप्तयेध्यातः । पूजकादेरपिक्रमात् ॥१९॥ अर्हद्गुर्वी स्मृतिःसेवा । तत्वश्रद्धा च पूजना ॥ तदैकाग्यूं तदीयाज्ञा । विप्रस्येव महाश्रियै ॥ २० ॥ व्यक्तशक्तिर्भक्तिरूपा-चारः संसार पारदः ॥ धर्मस्यविनयोमूलं । प्रथमसिध्दिसाधनम् ॥ २१ ॥
॥ इति श्रीअहद्गीतायां कर्मकाण्डे एकोनविंशोऽध्यायः ॥ १९ ॥
YENY
४१

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86