SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ अध्याय १९ KELLY***T**** श्रोतव्यश्चापि मतव्यः । साक्षात्कार्यश्चभावनैः ॥ जीवोमायाविनिर्मुक्तः ॥ सएष परमेश्वरः ॥ ११ ॥ श्रोतव्योऽध्ययनैरेष | मंतव्यो भावनादिना ॥ निदिध्यासनमस्यैव । साक्षात्कारायजायते ॥ १२ ॥ साक्षाच्चकुपूर्वमतं । येःध्यानात्परमर्षयः ॥ तेऽपिध्येया सदामीषां । शुद्धाचरणचिन्तया ॥ १३ ॥ योध्यायति यथाभावं । तादात्म्यं लभते हि सः ॥ संसर्गयोगाद् ध्यानेन । भ्रमरीस्यादिहेलिका ॥ १४ ॥ पिण्डस्थं च पदस्थं च । रूपस्थंरूपवर्जितम् ॥ चतुर्धा ध्यानमाम्नातं । तादात्म्यप्रतिपत्तये ॥ १५ ॥ येदिव्यरूपा मुनयः । सिद्धास्तन्नामजापतः ॥ पदस्थं खलुरूपस्थं । स्यात्तेषां स्थापनादिषु ॥ १६ ॥ स्वस्मिन्नेव च ताद्रुष्ये। पिडस्थंभाविते सति ॥ आत्मन्येव यदात्मा या । स्थितिस्तद्रूपवर्जितम् ॥ १७ ॥ सिद्धानैकेनतन्मूर्ति - नीतेषुध्यानगोचराः ॥ ज्ञानदानात्पूर्वदशा - ध्येयैषां गोरखे ततः ॥ १८ ॥ ज्ञानेाद्योऽर्हदादिर्य - स्तद्ध्यानाच नमस्क्रियाः ॥ तादात्म्याप्राप्तयेध्यातः । पूजकादेरपिक्रमात् ॥१९॥ अर्हद्गुर्वी स्मृतिःसेवा । तत्वश्रद्धा च पूजना ॥ तदैकाग्यूं तदीयाज्ञा । विप्रस्येव महाश्रियै ॥ २० ॥ व्यक्तशक्तिर्भक्तिरूपा-चारः संसार पारदः ॥ धर्मस्यविनयोमूलं । प्रथमसिध्दिसाधनम् ॥ २१ ॥ ॥ इति श्रीअहद्गीतायां कर्मकाण्डे एकोनविंशोऽध्यायः ॥ १९ ॥ YENY ४१
SR No.008408
Book TitleArhadgita Bhagvadagita ya Tattvagita
Original Sutra AuthorMeghvijay
Author
PublisherMahavir Granthmala
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy