Book Title: Arhadgita Bhagvadagita ya Tattvagita
Author(s): Meghvijay,
Publisher: Mahavir Granthmala
View full book text
________________
अध्याय
जीवोप्यजीवोऽजीवज्ञः । इति प्रबचने बच ॥ अजीवोजविसंज्ञेय-स्तात्स्थात्तद्वयपदेशतः ॥ ११ ॥ सूरबिम्बपिसूरत्वं । लोकेलोकोतरेस्फुटम् ॥ अजीवे स्थापनाजीवः । निक्षेपस्तेनसंगतः ॥ १२ ॥ शिवोजीवोऽभवत्राणे-जीवोजीवोपिपुद्गलः ॥ दशप्राणैरभावेन । स्थावरे जीवता क्वचित् ॥ १३ ॥ जीवो ज्ञानसदंशस्यः । प्राधान्यात्सत्वनामभृत् ॥ अजीव: सत्वयोगेपि । तन्निषेधादचेतनः ॥ १४ ॥ उपादानं चेतनायाः । जीवोऽजीवोनिमित्तकम् ॥ तेनाऽशुद्धाशनात्साधु-श्चौर्यचर्यापरोऽभवत् ॥ १५॥ रूपस्यान्नीलपीतादि । तद्योगे रूपवानणुः ॥ अणुसंबंधतोजीवो-प्ययंरूपिकथंचन ॥ १६ ॥ रूपीसिद्धोपितद्ज्ञानात्। खंरूपिस्यात्तदाश्रयात्॥अलोके पिवियपि। लोकखात्सर्वथाऽभिदः॥ १७ ॥ यथाक्षिदेशे भावेक्षी। चक्षुष्मान्जीवउच्यते ॥ लोकाकाशे जीवसत्वात्। तथाऽलोकःसचेतनः॥१८॥ यथाक्रमेण सिद्धं स्या-द्वान्यवासाधकं जने ॥ तथात्मनः सिद्धतापि । क्रमात् साधकताभृतः॥ १९ ॥ शिवेऽपरपरिणामा-पेक्षयासिद्धताऽक्षया ॥ स्वपर्यायाऽगुरुलघु-वृत्यासाधकतापुनः ॥२०॥ ऐवंभावाभावरूपं । द्वैविध्यं तद्विकल्पजं ॥ मुक्ताभावैक्यमालोक्यं । पारमैश्वर्यसिद्धये ॥ २१ ॥ ॥ इतिश्रीअर्हद्गीतायांब्रह्मकाण्डेषोडशोऽध्यायः ॥ १६ ॥

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86