Book Title: Arhadgita Bhagvadagita ya Tattvagita
Author(s): Meghvijay,
Publisher: Mahavir Granthmala
View full book text
________________
अध्याय
प्रसुप्तेर्मूर्छितेमत्ते । नज्ञानं शाद्विकेनये ॥ तदर्शनोपयोगश्च । नज्ञानीत्यागमेवचः ॥ १३॥ घटज्ञात्वा पटज्ञान । घटज्ञोप्यभिरूढितः ॥ ऐवंभूतेनघटज्ञ । एवंसर्वत्रभावना ॥ १४ ॥ मिथ्यादृष्टिरतोऽज्ञानी । ज्ञानी विमलदर्शनी ॥ योयत्रानुपयुक्तोयं । द्रव्यजीवस्तदा तथा ॥१५॥ अमुक्तेमुक्ततापीष्टा । जिने राजर्षिता मुनौ । असाधोरतिमुक्तस्य । साधुसेवागमोदिता ॥१६॥ सूर्यबिम्बेपि सूर्यत्वं । जिनविम्बेजिनागमः ॥ युक्ताहारबिहारादौ । साधुर्हन्ताप्यहिंसकः ॥ १७॥ अनाश्रवः केवलीति । सत्यप्याश्रवसप्तके ॥ बद्धदेवायुषोदेवो । बाच्यःसतिनृजन्मनि ॥१८॥ अल्पेऽभावविवक्षातः । कचिद्वाहुल्यचिन्तया ॥ पक्षेसिताऽसितत्वादि । व्यवहारदिशाक्कचित् ॥ १९॥ विधेयेऽपिनिषिद्धत्वं । निषिद्धेषु विधेयतां ॥ आगमेपि समादेशि वीरेणजगदीशिना ॥२०॥ तस्माद्बहुश्रुतैःपूर्वैराचीर्णश्चरणोयतैः ॥ धर्मः शर्मकरः कार्यः । श्रद्धेयस्तत्वकांक्षिभिः ॥ २१ ॥
॥ इतिअर्हद्गीतायांदशमोऽध्यायः ॥ १० ॥

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86