Book Title: Arhadgita Bhagvadagita ya Tattvagita
Author(s): Meghvijay, 
Publisher: Mahavir Granthmala

View full book text
Previous | Next

Page 34
________________ अध्याय 9 श्री गौतम उवाच ऐन्दवाच्चारतोज्योतिः । शास्त्रेण भाविमन्यते ॥ मनसा तत्कथं बेद्यं । तन्मार्ग कथय प्रभो ॥ १ ॥ 6 श्री भगवानुवाच 8 मानसान्येव वर्षाणि । अयनं वार्तवस्तथा ॥ मासापक्षो दिनं वेला-वाराभं तिथयः पुनः ॥ २ ॥ सूर्योदयान्मनोम्भोजे । कलाबोधस्य वर्धते ॥ तमारभ्यैव वर्षाणां । षष्टिःप्रतिकलंस्मृताः ॥ ३ ॥ वर्षाणांप्रभवादीनां । भावो मनसि जायते ॥ सुक्ष्मत्वात्सतुदुर्ज्ञानः । संज्ञेयःसुधिया स्वयम् ॥ ४ ॥ उग्रे दिप्ते तपो रक्ते । तेजस्विन्युत्तरायणम् ॥ चित्तेशांतिःजाड्यभाजि । निद्राणेदक्षिणायनम् ॥ ५ ॥ दिनं प्रमाणं कथितं । मानसंयुत्तरायणम् ॥ देवएव सतां चेतो । रात्रिस्तद्दक्षिणायनम् ॥ ६ ॥ साहंकारेच सोत्कर्षे । खस्यवृत्तोवसन्तकः ॥ क्रुद्धे सतृष्णे लोकानां । तापनेग्रीष्मवानृतुः ॥ ७ ॥ दाने रसे प्रकाशादौ । बर्षा मनसि निश्चिते ॥ शौचे देशान्तरभ्रान्तौ । शरदेव धनार्जने ॥ ८ ॥ जाड्ये प्रदीपने बन्हेः । परिधाने च भोजने ॥ हेमन्तः शिशिरः क्रीडा । ब्रीडा पीडारतादिषु ॥ ९ ॥ सूर्योदयादहोरात्रे । मानेन दशनाडिकाः ॥ बसन्ताद्याहिऋतवः । प्रोक्ता मंत्रागमे ततः ॥१०॥

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86