Book Title: Arhadgita Bhagvadagita ya Tattvagita
Author(s): Meghvijay, 
Publisher: Mahavir Granthmala

View full book text
Previous | Next

Page 38
________________ अध्याय श्री गौतमउवाच ऐन्द्रवरूपंनाडीभिज्योतिर्जा वा भिषग्वरः ॥ भूतं भाविभवद्वेत्ति । ज्ञेयं तन्मनसा कथम् ॥ १॥ श्री भगवानुवाच . नाभिस्थं नाडिकोरःश्वं । मनश्चक्रप्रचालयेत् ॥ बायुना तेन संकल्या । जायन्तेबाह्यहेतुभिः ॥ २ ॥ प्राणायामबलान्मंत्र-ध्यानाजीवस्यभावनात् ॥ ब्रह्मद्वारे मनोलीनं । भवेद्विश्वप्रकाशकम् ॥ ३॥ वातोदयाद्भवञ्चित्ते । जडताऽस्थिरताभयम् ॥ शुन्यत्वं विस्मृतिः श्रांति-ररतिश्चित्तविभ्रमः ॥ ४ ॥ पित्तोदयाचंचलत्वं । साहसंक्रुद्धतास्मरः ॥ कफोदयात् स्नेहहास्य-शोकामौढ्यं रतिःपरा ॥ ५॥ ज्ञानावरणसंज्ञेयो । वातःसिद्धान्तवादिनाम् ॥ पित्तमायुः स्थितेर्बाच्यं । नामकर्मकफात्मकम् ॥६॥ रक्ताधिक्येनपित्तेन । मोहप्रकृतयोऽखिलाः ॥ दर्शनावरणंरक्त-कफसांकर्यसंभवम् ॥७॥ तत्तद्विकारजं वेद्यं । गोत्रं पित्तकफात्मकम् ॥ अन्तरायःसन्निपाता--देषांविकृतिकारणम् ॥८॥ ज्ञात्वाभ्यासान्मनोभावान् ।वाखैराध्यास्मिकैस्तथा ॥अमीभिर्हेतुभिर्वश्यं ।मनोऽवश्यमनिच्छया ॥९॥ परमात्माततः साक्षात् । प्राणरूढमनःस्थितिः ॥ मनःसाध्यो मनोध्येयो । मनोदृप्तस्समीक्षते ॥१०॥

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86