Book Title: Arhadgita Bhagvadagita ya Tattvagita
Author(s): Meghvijay, 
Publisher: Mahavir Granthmala

View full book text
Previous | Next

Page 40
________________ अध्याय १५ श्री गौतमउवाच ऐन्द्रपुज्यः जगन्नाथ । प्रसादेन निवेदय ॥ किंतत्वं विदुषां ज्ञेयं । साधनं शिवसंपदः ॥ १ ॥ 8 श्री भगवानुवाच सत्वरूपं महातत्वं । यद्ब्रह्मेत्यभिधीयते ॥ तदेकं परमं बस्तु । द्वैतं तत्र न भासते ॥ २ ॥ भावः पदार्थः सद्रूपो-ऽस्तिक्रियार्थः परोगुणी॥ शुद्धद्रव्यं तथा धारः। प्रमेयश्चाऽभिधान्वयी ॥ ३ ॥ अनन्तःपरीणामीचा-नन्तशक्ति धरः स्वभूः॥ लोकालोकतयाख्यातः। सिद्धो बुद्धः शिवोऽव्ययः॥ ४ ॥ स्यादेकं केवलं ज्ञानं । ज्ञेयं तस्यैकमिष्यते ॥ ज्ञानाद्ज्ञेयं न भिन्नंस्या-त्सर्वथास्वप्रकाशवत् ॥ ५ ॥ ज्ञेयग्रहपरिणामाद् । ज्ञानिज्ञेयाकृतिः स्मृतः॥ तेनात्मा भगवान् विष्णु-रहन् ब्रह्ममयःस्वयम् ॥ ६ ॥ लोकालोकस्वरूपज्ञः । सलोकालोक उच्यते ॥ अग्निज्ञानादिव ज्ञाता । ऽऽगमेप्यग्निरुदीरितः ॥७॥ यदेकत्वविमर्शःस्या-त्तदैव केवलोदयः ॥ ध्रौव्यभावनया द्रव्यं । विकृतं न कृतं क्वचित् ॥ ८॥ उत्पादो वा विपत्तिश्च । द्रव्येऽवस्थान्तरोदयात् ॥ नावस्थातद्वतो भिन्ना। सर्वथाश्रयवर्जिता ॥९॥ नसंबंधं विनाकिञ्चित् । प्रकाश्यं स्यात्प्रकाशकैः ॥न सर्वथा स संबंधि-भेदेवाचकवाच्यवत् ॥ १० ॥

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86