Book Title: Arhadgita Bhagvadagita ya Tattvagita
Author(s): Meghvijay,
Publisher: Mahavir Granthmala
View full book text
________________
श्री गौतमउवाच ऐश्वर्येण धनुर्वेदे । ज्योतिःशास्त्रेपिगारुडे ॥ आयुर्वेदे शाकुनेवा । कथं धर्म प्रधानता ॥ १ ॥
श्री भगवानुवाच * सर्वशास्त्रोदिते यत्ने । फलंदैवानुसारतः ॥ तदनुगुण्यं धर्मेण । तद्वैगुण्यविपर्ययात् ॥ २ ॥ छात्रःपात्राधयापाठ्य-मानोपि विदुषांमुखात् एकोनारदवज्ञाता-ऽज्ञातापर्वतवत्परः ॥३॥ शुभाशुभफलंचैत-चेतसासुविमृश्यताम् ॥ तुल्यपि साधने हेतुं । विनाभेदः फलेकुतः ॥ ४ ॥ यथासर्वेषुवृक्षेषु । जलमेकं पयोमुचः । नानारसान् जनयति । धर्मः प्राणिगणे तथा ॥५॥ धर्माधर्ममयोलोक-स्तत्रापि धर्ममुख्यता ॥ जीवाजीवमये देहे । जीवस्यैवास्ति तत्वतः ॥ ६ ॥ काले यथैव त्रैविध्य-मपचारेण गीयते ॥ ज्ञानधर्मेतथैकस्मिन । भेदत्रयमदाहतम् ॥७॥ मननाद्वस्तुनो ज्ञानं । श्रद्धानादर्शनंपुनः ॥ विरत्याचरणंतत्वा-दुपयोगैक्यमाहितम् ॥ ८॥ धर्मपुंसो मुखं ज्ञानं । हृदयं दर्शनं स्मृतम् । शेषांगानि पाणिपाद-मुख्यानि चरणं परम् ॥ ९ ॥ धर्मस्यान्होमुखं ज्ञानं । मध्यान्हस्तस्य दर्शनम् ॥ व्यापारसंवृत्तेः संध्या । योगश्चरणमुच्यते ॥ १० ॥

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86